________________
३६८
मुक्तामयं शरीरं, सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल मही-वलयमिदं भाति यत्कीर्त्या ।।२२।। एको (x)त्पत्तिनिमित्तौ,यद्यपि पाणी तयोस्तथाऽप्येक: वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ।।२३।। धर्मस्थानांकिता-मुर्वी, सर्वतः कुर्वताऽमुना । दत्तः पादो बलाद्वन्धु-युगलेन कलेगले ॥२४॥ इतश्चौलुक्य वीरा (x) णां, वंशे शाखा विशेषकः । अर्णोराज इति ख्यातो, जातस्तेजोमयः पुमान् ॥२५॥ तस्मादनंतरमनंतरितप्रतापः, प्राप क्षिति क्षतरिपुलवणप्रसादः । स्वर्गापगाजलवलक्षितशंखशुभ्रा, बभ्राम यस्य लवणाब्धिमतीत्यकीति: (x) ॥२६॥ सुतस्तस्मादासींद्दशरथ ककुत्स्थप्रतिकृतेः । प्रतिक्षमापालानां कवलितबलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिक्लान्तमनसामसाध्वीनां भग्नाऽभिसरण कलायां कुशलता ॥२७।। चौलुक्यः सुकृती स वीर धवल: क (x) णे जपानां जपं, यः कर्णेऽपिचकार न प्रलपतामुद्दिश्य यो मन्त्रिणौ । प्राभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं, वाहानां निवहा घटाः करटिनां बद्धाश्च सौधांगणे ॥२८॥ तेन मन्त्रिद्वयेनायं, जानेजानुपवत्तिना ॥
वि (x) भुर्भुजद्वयेनेव, सुखमाश्लिष्यति श्रियं ॥२६॥ इतश्च
गौरीवरश्वशुर भूधर सम्भवोय, मस्त्यर्बुद: ककुदमद्रिकदंबकस्य । मंदाकिनी घनजटे दधदुत्तमां [गे], यः श्यालकः शशिभृतोऽभिनयं
__ करोति ॥३०॥ क्वचिदिह विहरंती: (x) क्षमाणस्य रामाः, प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org