Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 43
________________ NYAYAVATARA. 35 परार्थानुमानप्रलयप्रसंगात् तस्य वचनरूपत्वात् । ... शाब्द च द्विधा भवति । लौकिकं शास्त्रजं च। ... यादृशः शास्त्रात् तजातं प्रमाणतामनुभवति तदर्शयति ॥ ८ ॥ प्राप्तः प्रक्षीणाशेषरागादिदोषगणास्तेनोपक्षम् आदी उपलब्धम् अनेन अपौरुषेयापोहमाह; तस्य प्रमाणबाधितत्वात् पुरुषव्यापाराभावे वचनानुपलब्धेरुपलम्भेऽपि तदर्थानवगमात् तदर्थनिश्चयार्थ पुरुषाश्रयणे गजस्नानन्यायप्रसंगात् । ... उल्लङ्घनते प्राबल्येन गम्यते अभिभूयते अन्यैरित्युल्लचंय ततोऽन्यदनुल्लङ्घन सर्ववचनातिशायीति यावत् । ... दृष्टेन प्रमाणनिर्णीतेन इष्टस्य तद्वाच्यस्य विरोधो यस्मिन् तत् तथा तदेव । यदि चादृष्टः प्रमाणेन इष्टो वचनान्तरेण तयाविरोधक तद्विरुद्धार्थाभिधानात् । ततोऽन्यत् अदृष्टेष्टविरोधकम् अबाधार्थाभिधायीत्यर्थः । ... तत्त्वं जीवादयः पदार्थाः प्रमाणप्रतिष्ठितत्वात् तेषाम् उपदेशः स्वरूपप्रकाशनं तद्रक्षणादिविधानं वा तं करोतीति तत्त्वोपदेशकृत् अतएव सावं सर्वस्मै हितं ... । कुत्सिताः पन्थानः कापथास्तीर्थान्तराणि तेषां घट्टनं विचालकं निराकारकं सर्वजनापकारिकुमतविध्वंसकमित्यर्थः ॥९॥ स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः तद्वदन्यैषां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदकज्ञानप्रादुर्भावनं यथाऽऽत्मनोऽर्थनिर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधैर्विद्वद्भिः परस्मै अर्थः प्रयोजनं येन तत् परार्थं मीयतेऽनेनेति मानम् । ननु च यदि निश्चयोत्पादनं परार्थमानं तदा ज्ञानमपि परप्रत्यायनाय व्याप्रियमाणं परार्थं प्राप्नोतीत्याह । वाक्यं

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60