Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 52
________________ 44 NYAYAVATARA. अपि अकरुणापरीतचित्ततया दत्तनिजकमांसशकलत्वादिति । अत्र वैधर्म्यदृष्टान्तो ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः तद्यथा बोधिसत्त्वा इत्यत्र साधनसाध्यधर्मयेार्बोधिसत्वेभ्या व्यावृत्तिः सन्दिग्धा ततः प्रतिपादितप्रमागावैकल्यात् न ज्ञायते कि ते रागादिमन्तः उत वीतरागास्तथाऽ नुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा अतः सन्दिग्धसाध्यसाधनव्यतिरेकित्वमिति । परैः परेऽपि दृष्टान्ताभासास्त्रया विमृश्यभाषितया दर्शितास्तद्यथाऽव्यतिरेकोऽप्रदर्शितव्यतिरेकोऽविपरीतव्यतिरेकश्चेति । ते अस्माभिः प्रयुक्तत्वात्तु दर्शयितव्याः । तथाहि अव्यतिरेकस्तैर्दर्शिता यथा, अवीतरागः कश्चिद् विवक्षितः पुरुषो वक्तत्वादित्यत्र वैधर्म्यदृष्टान्तो यः पुनः वीतरागो न स वक्ता यथेोपलखण्ड इति यद्यपि किलोपलखण्डाद् उभयं व्यावृत्तं तथापि व्याप्तया व्यतिरेकासिद्धेः अव्यतिरेकित्वमिति । तथाहि अप्रदर्शितव्यतिरेकस्तैरुक्तो यथा, अनित्यः शब्दः कृतकत्वात् आकाशवदित्यत्र विद्यमानोऽपि व्यतिरेको वादिना वचनेन उद्भावित इति दुष्टता । विपरीतव्यतिरेकः पुनरभिहिता यथा, अनित्यः शब्दः कृतकत्वाद् इत्यत्र वैधर्म्यदृष्टान्ता यदकृतकं तन्नित्यं भवति यथाऽऽकाशमिति इत्यत्र विपर्यस्तव्यतिरेक प्रदर्शनात् विपरीतव्यतिरेकित्वम् ॥ २५ ॥ साध्यते प्रतिपाद्यप्रतीता आरोहाते तु मेयं येन तत् साधनं तच अनेकरूपं प्राक प्रत्यपादि । तद्यथा । कचित् हेतुरेवैकः, कचित् पक्षहेतू, क्वचित् पक्षहेतुदृष्टान्ताः क्वचित् ते एव सोपनयाः, क्वचित् सनिगमनाः, क्वचित् एकैकतच्छुद्धिवृद्ध्येति । ... तत्रेह सम्यक्साधनस्य दूषयितुमशक्यत्वात् साधनाभास एव ... 3

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60