Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 50
________________ 42 NYAYAYATAA. लब्धत्वात् घटवत् घटस्य सरचात् प्रत्यक्षादिभिरुपलब्धत्वाच्च । सन्दिग्धसाध्यधरो यथा, वीतरागोऽयं मरणधर्मत्वात् रथ्यापुरुषवत् रथ्यापुरुषे वीतरागत्वस्य सन्दिग्धत्वात्...। सन्दिग्धसाधनधम्मो यथा, मरणधमाऽयं पुरुषो रागादिमत्त्वात् रथ्यापुरुषवत् द्रष्टव्यः पुरुषे रागादिमत्वस्य सन्दिग्धत्वात् वीतरागस्यापि तथा सम्भवादिति । सन्दिग्धोभयधर्मो यथा, असर्वज्ञोऽयं रागादिमत्त्वात् रथ्यापुरुषवत् इति रथ्यापुरुषे प्रदर्शितन्यायेन उभयस्यापि सन्दिग्धत्वादिति । ननु च परैरन्यदपि दृष्टान्ताभासत्रयमुक्तं तद्यथा अनन्वयाऽप्रदर्शितान्वयो विपरीतान्वयश्चेति । तत्र अनन्वयो यथा, रागादिमान् विवक्षितः पुरुषो वक्तत्वाद् इष्टपुरुषवदिति यद्यपि किलेटपुरुषे रागादिमत्त्वं वक्तत्वं च साध्यसाधनधम्मैौ दृष्टौ तथापि यो यो वक्ता स स रागादिमानिति व्याप्तपसिद्धरनन्वयोऽयं दृष्टान्तः । तथा अप्रदर्शितान्वयो यथा, अनित्यः शब्दः कृतकत्वात् घटवदिति । अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन न प्रकाशित इति अप्रदर्शितान्वयो दृष्टान्तः । विपरीतान्वया यथा, अनित्यः शब्दः कृतकत्वात् इति । हेतुमभिधाय यदनित्यं तत् कृतकं घटवदिति विपरीतव्याप्तिदर्शनात् विपरीतान्वयः ॥ २४ ॥ साध्याभावः साधनाभावव्याप्तौ दयितुमभिप्रेयते यस्मिन् तद् वैधय॑म् । तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थ साध्यसाधनयुग्मानांगम्यगमकोभयानाम् अनिवृत्तः अविवर्त्तनात् च शब्दस्य व्यवहितप्रयोगत्वात् संशयाञ्च निवृत्तिसंदेहाच्चेत्यर्थः । तदनेन षड़ दृष्टान्ताभासाः सूचिताः । तद्यथा साध्याव्यतिरेकी (१), साधनाव्यतिरेकी (२), साध्यसाधनाव्यतिरेकी

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60