Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 54
________________ 46 NYAYAVATARA, प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादन प्रमाणस्य फलम् अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तेः तस्य सर्वानर्थमूलतया प्रमात्रपकारित्वात् तन्निवर्तनस्य प्रयाजनता युक्तव । एतच्चानन्तरप्रयोजनं सर्वज्ञानामेकरूपत्वात् सामान्येनोक्तम् । व्यवहितप्रयोजनं पुनः विभागेनाह । केवलस्य सर्वशशानस्य सुख वैषयिकं सुखातोतपरमालादानुभव उपेक्षा साक्षात् समस्तानुभवेऽपि हानोपादानोपादानेच्छाभावान्मध्यस्थवृत्तिता ते सुखोपेक्षे फलमित्यर्थः । शेषस्य तद्वरतिरिक्तप्राकृतलोकप्रमाणस्य आदानं ग्रहणं हानं परित्यागस्तयोरादानहानया?ः बुद्धिरादानहानधीः, सा फलमिति यावत् । ततश्च प्रादेयानां सम्यगदर्शननकचन्दनादीनां या आदित्सा तथा, हेयानां मिथ्यादर्शनादिविषकण्टकानां या जिहासा प्रमाणसाध्या प्रमाणात्तसिद्धेः ॥ २८ ॥ अनेके बहवोऽन्ता अंशा धर्मा वा आत्मनः स्वरूपाणि यस्य तद् अनेकात्मकं कि तद्वस्तु बहिरन्तश्च गोचरः विषयः सर्वसंविदां समस्तसंवित्तीनामनेन अनेकान्तमन्तरेण संवेदनप्रसरव्यवच्छे दं दर्शयति ... । एक इत्यादि अनन्तधर्माध्यासितं वस्तु साभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयतीति नयः प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थस्तस्य विषयः प्रमाणस्य गोचरो मतोऽभिप्रेत एकदेशेन अनित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवच्छिन्नेत्यर्थः। ... सर्वसंग्राहिसत्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः, तद्यथा । नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ़ एवंभूता नया इत्यतोऽस्माभिरपि से एव वर्ण्यन्ते कथमेते सर्वाभि

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60