Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 56
________________ 48 NYAYAVATARA. मिथ्याश्रुतम् । तश्च दुर्नयाभिप्रायप्रवृत्तं तीर्थिकसम्बन्धि निर्गोचरत्वात् । तथा नयैः हेतुभूतैः श्रुतं नयश्रुतम् । एतव्य अर्हदागमान्तर्गतमेव एकनयाभिप्रायप्रतिबद्धम् ।... तथा निर्दिश्यमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्यात् युक्तो वादोऽभिप्रेतधर्मवचनं स्याद्वादः । तदात्मकं श्रुतं तत् किं भूतमुच्यते इत्यत्राह । संपूर्ण विकलः स चासावर्थश्च तद्विनिश्चायि तन्निर्णयहेतुत्वाद् एवमभिधीयते । नयानां नैगमादीनाम् एकनिष्ठानां एकधर्मग्रहणपय्र्यवसितानां श्रुतवर्त्मनि आगममार्गे प्रवृत्तेः तदेकैकाभिप्रायप्रतिबद्ध संपूर्णार्थविनिश्चायि प्रवर्त्तनान्न तत्समुदायस्यैव संपूर्णार्थविनिश्चायकत्वाद् इत्याकूतम् ॥ ३० ॥ ... स्वान्यौ आत्मपरी निर्भासयितुम् उद्योतयितुं शीलमस्येति स्वान्यनिर्भासी स्वस्वरूपार्थयेाः प्रकाशक इति यावत् । विवर्त्तनम् अपरापरपर्य्यायेषु गमनं विवृत्तिः परिणामः सा विद्यते यस्येति विवृत्तिमान् । स्व आत्मा संवेद्यते अनेनेति स्वसंवेदनं सेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदनसंसिद्धः । क्षितिः पृथिवी आदिर्येषां तानि क्षित्यादीनि । आदिशब्दाद् अम्बु तेजोवाय्वाकाशानि गृहयन्ते । न विद्यते आत्मा स्वरूपमस्येति अनात्मकः क्षित्यादिस्वरूपो न भवति इत्यर्थः । ... स्वान्यनिर्भासीत्यनेन प्रागुक्तस्वपराभासिप्रमाणविशेषवन् मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च ज्ञानमात्रवादिनः प्रतिक्षिपति । कथं ज्ञानज्ञानिनोः कथंचिदभेदेन तदुक्तन्यायाविशेषादिति कर्त्ता भोक्तेति विशेषणद्वयेन सांख्यमतं विकुट्टयति । विवृत्तिमानित्यमुना तु एकान्तनित्यं अपरि ...

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60