Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 57
________________ NYAYAVATARA. 49 ग्रामिनं नैयायिकवैशेषिकादिप्रकल्पितं प्रमातारं निरस्यति सर्वथाऽविचलितरूपस्य अर्थग्रहणपरिणामानुपपत्तेः ॥ ३१ ॥ प्रमाणानि प्रत्यक्षादीनि आदिशब्दान्नयपरिग्रहः । तेषां व्यवस्था प्रतिनियतलक्षणादिरूपा मय्यादा सा इयमनन्तरोक्तस्थित्या प्रकीर्त्तितेति । ... सर्वसंव्यवहर्त्तृणां लौकिकतीर्थिकभेदभिन्नसमस्तव्यवहारवतां प्रसिद्धाऽपि रूढाऽपि तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसंगात् । प्रकीर्त्तिता संशब्दिता अव्युत्पन्नविप्रतिपन्नव्यामोहापोहायेति गम्यते ॥ ३२ ॥ ... स्याद्वादकेसरिसुभीषणनादभीतेरुत्तस्तलोलनयनान् प्रपलाय्यमानान् । हे दुर्नयाश्रितकुतीर्थिमृगाननन्यत्राणान् विहाय जिनमेत्य तमाश्रयध्वम् ॥ भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया । मोहादतो यदिह किंचिदभूदसाधु तत् साधवः कृतकृपा मयि शोधयन्तु ॥ न्यायावतारविवृति विधिना विधित्साः सिद्धः पुनर्थ इह पुण्यचयस्ततो मे । नित्यः परार्थकरणेोद्यतमाभवान्तात् भूयाज्जिनेन्द्र मतलंपटमेव चेतः ॥ इति न्यायावतारविवृतिः समाप्ता । कृतिरियं सितपट्ट श्रीसिद्धसेनदिवाकरव्याख्यानकस्य तर्कप्रकरणवृत्तेरिति ॥ Printed by Apurva Krishna Bose, at the Indian Press, Allahabad,

Loading...

Page Navigation
1 ... 55 56 57 58 59 60