Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 49
________________ NYAYAVATARA. 41 तद्यथा एकान्तेन नित्यः शब्दोऽनित्यो वा । सत्त्वात् उत्पत्तिमत्त्वात् कृतकत्वात् प्रत्यभिज्ञायमानत्वात् इत्याह ।...कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभावत्वात् । तथापि तेषां साधनत्वे साध्यमपि निःस्वभावमिति । खरविषाणं शशविषाणस्य साधनमापद्यते इति शोभनः साध्यसाध. नव्यवहारः ।...एवं हि नभःपुण्डरीकं तत्र नास्तीति सत्तादिकमपि कल्पयितुं न शक्यमिति प्रसज्येत ।...अनित्यवादी नित्यवादिनं प्रति प्रमाणयति । सर्व क्षणिक सत्त्वात्...... नित्यवादी पुनः एवं प्रमाणयति । सर्व नित्यं सत्त्वात् । तस्माद् अमी सर्व एव हेतवः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते इति तमेव प्रतिपादयितुम् ईशते विमूढबुद्धिभिः पुनः विपक्षसाधनार्थम् उपन्यस्यमाना विवक्षया प्रसिद्ध विरुद्धानकान्तिकतामाबिभ्रतीति स्थितम् ॥ २३ ॥ दृष्टान्तदोषा दृष्टान्ताभासा इत्यर्थः ।...साध्यं गम्यम् आदिशब्दात् साधनोभयपरिग्रहः। तद्विकलास्तच्छ्रन्या आदिशब्दात् सन्दिग्धसाध्यसाधनोभयधमा गृह्यन्ते । किंभूता पते इत्याह । अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्च तेभ्य उत्था उत्थान येषां तेअपलक्षणहेतूत्थाः। इदं च प्रायकं विशेषणं, सम्यग हेतावपि वक्तदोषवशात् दृष्टान्ताभासतोपपत्तेः यथा नित्यानित्यः शब्दः श्रावणत्वात् घटवदिति । तत्र साध्यविकलो यथा, भ्रान्तम् अनुमानं प्रमाणत्वात् प्रत्यक्षवत् प्रत्यक्षस्य भ्रान्तताविकलत्वात्...... । साधनविकलो यथा, जाग्रत्संवेदनंभ्रान्तं प्रमाणत्वात् स्वप्नसंवेदनवत् स्वप्नसंवेदनस्य प्रमाणतावैकल्यात्... । उभयविकलो यथा, नास्ति सर्वशः प्रत्यक्षाद्यनुप

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60