Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 47
________________ NYAYAVATARA. 3) यथा अग्निरत्र धूमस्य तथैव उपपत्तः महानसादिवत् । इत्ययं च अविस्मृतप्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्याह ॥१८॥ साध्ये गम्ये निवर्तमाने असंभवति तु शब्दोऽवधारणार्थो भिन्नक्रमः स च साधनस्य असंभव एव इत्यत्र द्रष्टव्यः । ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधय॑ण भवति इति शब्देन सम्बन्धस्मरणात् इति इदमत्रापि संबध्नाति अस्यापि स्मर्यमाणे संबन्धे अप्रयोगात् इति किमर्थं विस्मृतसंबन्धे पव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदेति प्रवचनावकाशमाशङ्कयाह ॥ १९ ॥ अन्यन्दा हि स्मयमाणे वा संबन्धे अप्रयुज्येतागृहीते वा... ततश्च अन्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वम् अन्तर्व्याप्तिस्तस्यैव साध्यसंगम्यसंसिद्धः प्रतीतेः बहिर्विवक्षितधर्मिणाऽन्यत्र दृष्टान्तधर्मिणि उदाहृतिः व्याप्तिदर्शनरूपा व्यर्था निष्प्रयोजना । तदसद्भावेऽप्येव संबन्धाद् ग्रहणाद् अन्तर्व्यात्प्त्यभावेऽप्येवमिति व्यथैव बहिरुदाहृतिः । नहि सहदशनात् । क्वचित् सर्वत्र तद्रपता सिध्यति व्यभिचारदर्शनात् । तस्माद् अगृहीतसम्बन्धे प्रतिपाद्ये प्रमाणे न प्रतिबन्धः । साध्यस्तसिद्धौ तत एव साध्यसिद्धरकिञ्चित्करी दृष्टान्तादाहृतिरिति न्यायविद्वांसो विदुरवबुध्यन्ते इति । इह च प्रकरणे शेषावयवानां उपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्तरुचिसत्त्वानुग्रहपरत्वात् अस्य यद्यपि साक्षाल्लक्षणं नोक्तं तथाप्यत एव प्रतिपादितावयवत्रयं बुद्धिमद्भिरुन्नेयम् । यतोऽवयवापेक्षया जघन्यमध्यमोत्कृष्टाः तिस्रः कथा भवन्ति इति । तत्र हेतुप्रतिपादनमात्रं जघन्या, याद्यवयवनिवेदनं मध्यमा,

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60