Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 45
________________ NYAYAVATARA. 37 प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद् उपचारेण उच्यते ॥१२॥ पक्षो वक्ष्यमाणलक्षणः स प्रादिर्येषां हेतुदृष्टान्तोपनयनिगमादीनां तानि तथा तेषां वचनानि प्रतिपादका ध्वनयः तान्यैवात्मस्वरूपं यस्य तत्पक्षादिवचनात्मकं न तु च हेतुप्रतिपादकं वचः परार्थमनुमानमित्यभिधायतत्पक्षादिवचनात्मकमिति वदतः पूर्वापरव्याहता वाचो युक्तिः । नैतदस्ति । एवं मन्यते । नैकः प्रकारः परार्थानुमानस्य किं तर्हि यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा यत्र सः प्रत्यायनीयः तत्र दशावयवसाधनं प्रतिपादनोपायः तद्यथा पक्षादयः पञ्च तच्छुद्धयश्च ॥ १३॥ साध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणं प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः ।...प्रत्यक्षाद्यनिराकृत इति प्रत्यक्ष साक्षात्कारिसंवेदनमादिशब्दादनुमानस्ववचनलोका गृह्यन्ते तैः अनिराकृतः अबाधितः । ...तद्यथा सर्वमनेकान्तात्मकम् अस्ति सर्वज्ञ इत्यादि । तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । हेतोर्गोचरदीपक इति निर्देशस्य विषयसंदर्शकत्वात् इत्यर्थः ॥ १४॥ ____ अन्यथेत्युक्तविपरीताश्रयणे पक्षप्रयोगाकरणे इत्यर्थः । वादिनो हेतूपन्यासकर्तुरभिप्रेतोऽभिमतः स चासौ हेतुगोचरश्च वाद्यभिप्रेतहेतुगोचरस्तत्र मुह्यति दोलायते तच्छीलश्च यस्तस्य प्रत्यायस्य प्रतिवादिना हेतुविरुद्धारेकितो भवेत् विरोधशङ्काकलङ्कितः स्यादित्यर्थः । ततश्च सम्यग् हेतावपि विपक्ष एवायं वर्तते इति व्यामोहात् विरुद्धदूषण

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60