Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 44
________________ 36 NYAYAVATARA. परार्थ न ज्ञानं तस्यैव आनन्तर्येण व्यापारात् परप्रयोजनमात्रत्वाच्च इतरस्य तु व्यवहितत्वात् स्वपरोपकारित्वात् च । कथं वचनमज्ञानरूपं प्रमाणमित्याह । तदुपचारतस्तस्य ज्ञानस्य उपचारोऽतद्रूपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् ततः इदम् उक्तं भवति प्रतिपाद्यगतमुत्पत्स्यमानं यत् ज्ञानं तदव्यवहितकारणत्वात् वचनमपि उपचारेण प्रमाणमित्युच्यते॥१०॥ प्रत्यक्षेणापि अनुमानेनेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायनात् परार्थत्वं प्रतिपाद्यप्रयोजनत्वंद्वयोरपि प्रत्यक्षानुमानयोस्तुल्यकारणत्वान्नानुमानस्यैवैकस्येत्यभिप्रायः । ... तद्यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्न: परार्थमनुमानम् तथा प्रत्यक्षप्रतीतोऽपि परार्थं प्रत्यक्ष परप्रत्यायनस्य तुल्यत्वात् वचनव्यापारस्यैव भेदात् । तथाह्यनुमानप्रतीतं प्रत्यायन्नवं वचनयति । अग्निरत्र धूमात् । यत्र यत्र धूमस्तत्र तत्राग्निः । यथा महानसादौ । वैधयेण वा अग्नपभावे न क्वचिद् धूमो यथा जलाशयादा । तथा च धूमोऽयं तस्मात् धूमादग्निरत्रेति ।... प्रत्यक्षप्रतीतं पुनर्दर्शयन् एतावद्वक्ति । पश्य राजा गच्छति । ततश्च वचनात् विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्य अनुमेयप्रत्यक्षार्थविषया यतः प्रतीतिरुल्लसत्यता द्वयोरपि परार्थता इत्याह च । परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीति प्रतिपादकस्य प्रत्यक्षानुमाननिर्णीतार्थप्रकाशनकारणत्वादित्यर्थः। एतेन पूर्वकारिकोक्तोपचारकारणं च लक्षयति ॥ ११॥ यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिझानगोचरकथनचतुरं तत् प्रत्यक्षमुच्यते।... वचनं कुतः प्रत्यक्षमित्याह ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60