Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown
View full book text
________________
34
NYAYAVATARA.
अनित्यत्वे साध्ये काककार्यादेरपि गमकत्वप्रसक्तः । तत्रापि लोकादेधर्मिणः कल्पयितु शक्यत्वात् । ... अधुना यत् शौद्धोदनशिष्यकैन्यंगादि यदुतभ्रान्तमनुमानं सामान्यप्रतिभासित्वात् तस्य च बहिः स्वलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्यामपाक्रियमाणतया योगात्तद्रूपतया वत न तस्याध्यवसायादेतस्मिन् तद्ग्रहस्य च भ्रान्तिलक्षणत्वात् ... तदुक्तम् "अतस्मिन् तद्ग्रहो भ्रान्तिरपि संबन्धतःप्रमा” इति तदपाकतुमाह तदभ्रान्तमित्यादि ॥ ५॥
न केवलमनुमानं भ्रान्तं किं तर्हि यद्भवद्भिः दृष्टान्ततया उपात्तं प्रत्यक्ष तदपि भ्रान्तमेव "सर्वमालम्बने भ्रान्तम्” इति वचनात् । ... लोकसंवृत्तिं घटयन्सो वयं दृढ़तरवासनाप्रबोधसंपादितसत्ताकयाःप्रत्यक्षानुमानयोःप्रमाणतामाचक्ष्महे ॥६॥ ___ सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत् प्रमाणमिति सम्बन्धः। तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिध्यति निष्पद्यते नान्यथा प्रमेयाभावे प्रमाणाभावात् ॥७॥
दृष्टन प्रमाणावलोकितेन इष्टः प्रतिपिपादयिषिताऽव्याहतोऽ निराकृतः सामर्थ्यादों यस्मिन् वाक्ये तत् तथा प्रमाणनिश्चितार्थाबाधितमिति यावत् । तस्मात् परमेोऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वाऽर्थी वाच्यस्तमभिधातुं शील यस्य तत् परमार्थाभिधायि विशिष्टार्थदर्शकमित्यर्थः। ततस्तत्वग्राहितया उत्पन्नं प्रकृतवाक्यप्रतिपाद्यार्थादानशीलतया लब्धात्मसत्ताक यन्मानं तत् शाब्दमिति प्रकीर्तितम् । ... तदप्रामाण्ये

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60