Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 41
________________ NYAYAVITANA. 33 सकलमपि शानं प्रलपन्ति तानिरस्थति । ... ... ग्राहकमिति च निर्णायकं द्रष्टव्यं निर्णयाभावेऽर्थग्रहणायोगात् । तेन यत् तथागतैः प्रत्यपादि प्रत्यक्ष कल्पनापढिमभ्रान्तमिति तदपास्तं भवति । तस्य युक्तिरिक्तत्वात् । तथाहि, ते निर्विकल्पकत्वेऽध्यक्षस्य युक्ताः खेटयन्ति किलेदमर्थसामर्थ्यनादीयते सन्निहितार्थक्रिया समर्थार्थग्राहकत्वात् । ... तस्मात् [प्रत्यक्षात् ] इतरत् असाक्षादर्थग्राहकं ज्ञानं परोक्षमिति झयमवगन्तव्यमेतदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव । बहिरर्थापेक्षया तु परोक्ष-व्यपदेशमश्नुते इति दर्शयन्नाह ग्रहणेक्षयेति । इह ग्रहणं प्रक्रमाद् बहिःप्रवर्तनमुच्यते । अन्यथा विशेषणवैयर्थ्यात् तस्येक्षापेक्षतया बहिःप्रवृत्तिपालोचनयेति यावत् । तदयमर्थो यद्यपि स्वयं प्रत्यक्ष तथापि लिंगशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियते इति परोक्षमित्युच्यते । ... तद्यथा अनुमानं शाब्दं चेति ॥४॥ साध्याविनाभुन इत्यनेन परप्रणीतलिंगलक्षणव्युदासमाचष्टे । ततश्च यत् परे प्रोचुः । पक्षधर्मान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीणि एव लिंगानि अनुपलब्धिः स्वभावः कार्यतेति । तदुक्तं “अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसति । निश्चितानुपलम्भात्मकायाख्या हेतवस्त्रयः" ॥ इति ॥ तथाऽन्येऽस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लिंगिकमिति। तथा पूर्ववत् शेषवत् सामान्यतादृष्टमित्यादि। तबालप्रलपितप्रायमित्यवगन्तव्यम् । पक्षधर्मत्वविरहेऽपि अनुमिमीमहे कालादिकसूत्रधर्मी समस्त्येव तत्र पक्षधर्मता लिंगस्य गृह्यते इति चेत् न, अतिप्रसङ्गात् । एवंहि शब्दस्य

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60