Book Title: Nyayavatara
Author(s): Satish Chandra Vidyabhushan
Publisher: ZZZ Unknown

Previous | Next

Page 48
________________ 40 NYATAVATARA. संपूर्णदशावयवकथनमुत्कृष्टा । तत्र इह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्टे अर्थतः सूचयति; तत् सद्भावस्य प्रमाणसिद्धत्वात् इति ॥२०॥ प्रतिपाद्यस्य प्रतिवादिनः यः कश्चित् सिद्धः प्रतीतावारूढ एव स पक्षाभासः । साध्यस्यैव पक्षत्वात् सिद्धस्य साधनानहत्वाद् अतिप्रसक्तस्तथाऽक्षलिंगतोऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस्तिरस्कृतो यः स पक्षाभासस्तत्र प्रतिपाद्यसिद्धो यथा पौद्गलिको घटः । सौगतं वा प्रति सर्व क्षणिकमित्यादि । प्रत्यक्षबाधितो यथा निरंशानि स्वलक्षणानि परस्परविविक्तौ वा सामान्यविशेषाविति । अनुमानबाधितो यथा नास्ति सर्वज्ञ इति । लोकबाधितो यथा गम्या माता इति । स्ववचनबाधितो यथा न सन्ति सर्वे भावा इति ॥ २१ ॥ _ हेतालक्षणम् असाधारणधर्मरूपं यदीरितं गमितम् अनेकार्थत्वाद्दा धातोः प्रतिपादितं स्वार्थानुमानप्रस्तावे। यदुतान्यथानुपपन्नत्वमिति । तस्य अप्रतीतिरनध्यवसायः, संदेहो दोलायमानता, विपर्यासो वैपरीत्यनिर्णयाऽप्रतीतिश्च संदेदेहश्च विपर्यासश्चेति द्वन्द्वः । तदाभता हेत्वाभासता ॥२२॥ यः कश्चिदप्रतीतः प्रतीत्याऽगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा हेत्वाभासः ।...यस्तु अन्यथैव साध्यं विनैव विपक्ष एवेति यावत् उपपद्यते सम्भवति स विरुद्धाभिधानः । यः पुनः अन्यथापि साध्यविपर्ययेणापि युक्तो घटमानकोऽपि शब्दात् साध्येनापि सोऽत्र व्यतिकरेऽनैकान्तिकसंज्ञो ज्ञातव्य इति । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपादबुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60