Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 12
________________ भवाब्धौ भ्रमतां नाथ, प्राप्तं यत्तव शासनम् । तेन मन्ये निजं धन्यं, कूतपुण्यं जगत्पते ! ॥२४॥ जगदर्घ्यं जिन ! त्वां ये, नमन्त्येकाग्रमानसाः । ते धन्या वन्दनीयाश्च, पुण्यभाजः सुरैरपि ॥२५॥ भवाटवीभ्रमद्भव्यशुद्धमार्गप्ररूपिणे । करुणाम्भोधये तुभ्यं, नमः श्रीपरमात्मने ॥२६॥ सुरासुरनमस्याय, विश्वानन्दविधायिने । कर्मामयविमुक्ताय नमः श्रीपरमात्मने ॥२७॥ त्वत्समो नाऽपरो दाता, मदन्यो नैव निर्धनः विधाय करुणां तस्माद्, वाञ्छितार्थं समर्पय ॥२८॥ पुण्यं त्वच्छासनं नाथ ! सर्वसौख्यैककारणम् । कलौ दुरापं सम्प्राप्तं, तद्भाग्यं मे महत्तरम् ॥२९॥ प्रार्थये हे जगद्वन्द्य !, भूयो भूयो दयार्णव !। त्वदीयं शासनं मेऽस्तु, सदा जन्मनि जन्मनि ॥३०॥ यज्ज्ञानदर्पणे सर्वं, विश्वं प्रतिफलत्यदः ।। स नाथ शरणं मे स्यात्, स्वप्ने वा जागरेऽपि च ॥३१॥ त्वत्पादपजं भक्त्या, ये नमन्ति नरोत्तमाः । न भ्रमन्ति भवाटव्यां; ते कदाचिज्जिनोत्तम ! ॥३२॥ . वेदाक्षिणाक्षिमितसंवति(२०२४) पादलिप्ते, शत्रुञ्जयेशऋषभेश्वरसुप्रसादात् । श्रीनेमिसूरिविजयामृतदेवशिष्ट्या, द्वात्रिंशिकां विहितवान् मुनिहेमचन्द्रः ॥३३॥ wwwwwwww

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86