Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ अन्तरालापा: डॉ. वासुदेवः वि. पाठक श्रीकृष्णस्य प्रिया काऽस्ति ? शिखी मेघे करोति किम् ? कृष्णस्य कीदृशं रूपम् ? राधा नृत्यति मोहकम् ॥ किमिच्छन्ति जनास्सर्वे ? महत्त्वं कस्य जीवने ? किं कुर्वन्ति महावीराः ? सुखं स्वास्थ्यस्य रक्षणम् ॥ कस्य सेवा मुदा कार्या ? विचार्यं किं विशेषतः ? कथं गण्यं च सत्कार्यम् ? राष्ट्रस्य हितमुत्तमम् ॥ सत्सङ्गतिः कथं ज्ञेया ? . का माता ज्ञानदायिनी ? जनन्याः कीदृशी प्रीतिः ? सारदा शारदा वरा ॥ जीवने हानिवार्यं किम् ? यमुना कस्य वै सुता ? गुरोः कृपा कथं प्राप्या ? स्वास्थ्यं सूर्यस्य सेवनात् ॥ अभिज्ञः कस्स्मृतो लोके कश्चाऽस्ति सर्वकामदः ? यस्य नास्ति व्ययस्सः कः ? ईशानः प्रभुः अव्ययः ॥ कस्पाऽस्ति चञ्चलत्वं रे ? कश्व शान्ति प्रयच्छति ? सङ्कल्पः कीदृशः कार्यः ? मनसः संयमः शुभः ॥ केषां सङ्गे सदानन्दः ? केनाऽस्ति गुणदोषता ? कस्स्वभावश्च पुष्पाणाम् ? सतां सङ्गेन फुल्लता ॥ जीवति सुखपूर्व कः ? सेवानिष्टश्च को वर: ? शिष्योत्कर्षे रतः कश्च ? नीतिमान् धार्मिको गुरुः ॥ ३५४, सरस्वतीनगर, आंबावाडी, अहमदाबाद-३८००१५. ३५

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86