Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ अन्तरालापाः मुनिन्यायरत्नविजयः (१) दुःखं नास्ति प्रियं केषाम् ? सर्वेषां किं प्रियं मतम् ? किं विना जीवनं व्यर्थम् ? सर्वेषां जीवनं प्रियम् ॥ (२) जडेभ्यो विपरीतः कः ? मरणं कस्य नो भवेत् ? पुण्यं विना हि किं व्यर्थम् ? जीवो जीवस्य जीवनम् ॥ (३) आपदि शरणं कस्य ? निर्भयं जीव्यते कथम् ? | धर्मस्य च फलं कीदृग् ? जिनस्य शरणात् शुभम् ॥ (४) कस्मै कार्याय जीव्येत ? समाधिना च किं भवेत् ? देवाग्रे किं न याच्यं स्यात् ? श्रेयसे मरणं वरम् ॥ (५) षायाणां नु को मुख्यः ? वक्तव्यं कीदृशं सदा ? जीवनं किमधन्यस्य ? अभिमानः प्रियं धनम् ॥ (६) कार्यारम्भे हि किं कार्यम् ? विनीतानां च कः प्रियः ? संसारपारगामी कः ? मङ्गलं गौतमः प्रभुः ॥ (७) संसारोत्तारकाः के नु ? . किं ग्राह्यं च हितार्थिना ?. कुत्र न रज्यति साधुः ? गुरवः शरणं भवे ॥ (८) आपद्यपि न कस्त्याज्यः ? कार्यं पराजितस्य किम् ? धार्या च धीरता कुत्र ? धर्मः शरणमापदि ॥ (९) कीदृशा ज्ञानिनो ज्ञाने ? उद्यतः केषु मा भव ? नन्दन्ति कलिकाले के ? रताः पापेषु पापिनः ॥ (१०) कीदृशः कथितः क्रोधः ? सरलो वर्तते न कः ? पालनीयाः कदा जीवाः ? हेयः खलस्तु सर्वदा ॥ . (११) कस्मात् बिभेति सर्वोऽपि ? . क्रूरतरो मतश्च कः ? पिशाचो भाति कीदृक् च? सात् खलः भयङ्करः ॥ (१२) स्वाध्याये नु रमन्ते के ? सदैव सुखिनश्च के ? जीवाश्च दुःखिनः कुत्र ? साधवो निस्पृहाः भवे ॥ ३४

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86