Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ आस्वाद: स्मृतिः मुनिकल्याणकीर्तिविजयः स्मृतिरेका शक्तिरस्ति, सूक्ष्मा शक्तिः । एषा शक्तिींवनेऽत्यन्तमुपयोगिनी । अस्या आवश्यकताऽनिवार्यता च पदे पदे भवतीत्यस्माकं सर्वेषामनुभवः । यदा च कुतश्चित् कारणात् सा विस्मृत्याऽऽक्रान्ता भवति तदा वयं कीदृशीमसहायकतां शक्तिहीनतां चाऽनुभवाम इत्यपि सर्वेषामनुभूतचरमेव । किन्तु सा स्मृतिः कथमुत्पद्यते, कथं च स्थिरीभवति, कथं दृढा गाढा च भवति, कथं क्षीणा नष्टा च भवति - इत्येतत् सर्वं विचारयामः किञ्चित् । ____ वयं यत् किमपि कार्यं कुर्मः - चलामो विशामः खादामः पठामः शयामहे यजामहे भजामहे वा तस्य सर्वस्याऽपि काचन छाया काचन वासना केचन वा संस्कारा अस्माकं चित्ते संश्लिष्यन्ते । कार्य तु स्वकाले समाप्तं भवति । परं तस्य ये संस्काराश्छायारूपा वासनारूपा वा चित्ते संश्लिष्टा भवन्ति ते एव स्मृतिरिति कथ्यन्ते । एवं च स्मृतिः का कथं च सोत्पद्यते इति विचारितम् । सा पुनः कथं स्थिरीभवति? यतो वयमादिनं सङ्ख्यातीतानि कार्याणि कुर्मः । प्रत्येकं कालखण्डो नूतनकार्यैर्व्याप्तो भवति । एवं च स्थिते चित्तमपि प्रतिक्षणं नवनवैः संस्कारैराक्रान्तं भवति । तत् कथमेते सर्वेऽपि संस्काराः स्मृतिरूपेण स्थिरीभवन्ति ? - इत्येकः प्रश्नः । अपरश्च वयं यानि सङ्ख्यातीतानि कार्याणि कुर्मस्तानि सर्वाण्यपि समुचितान्युपयोगीनि वा न भवन्ति । ततश्च यदि तेषां सर्वेषामपि संस्काराश्चित्ते संश्लिष्यन्ते तदा चित्तमनुपयोगिभिः संस्कारैर्भूतं सत् उपयोगिसंस्काराणां कृते प्रस्तुतं नैव भवेत् कदाचित् । तदा च किं स्यादित्यपि प्रश्नः । अत्र चेदं समाधानं यत् - चित्तं विवेकयुतं भवति सर्वदा । तत् खलु सर्वेषामपि संस्काराणां भारं नैव वहेत् कदाऽपि । ये संस्कारा उपयोगिनः स्युस्तानेव चित्तं सन्धारयति ये च निरर्थकाः स्युस्तान् संस्कारान् चित्तं दूरं निःसारयति । नन्वेतदपि कथं ज्ञायते यदमुकसंस्कारा एवोपयोगिनोऽन्ये तु निरर्थकाः इति ? तत्राऽप्यस्त्येव समाधिर्यत् - यानि कार्याणि वयं पूर्णमनोयोगेन चित्तं स्थिरीकृत्य कुर्याम, भवन्तु तानि शुभान्यशुभानि वा, तेषां संस्कारा उपयोगिनः - इति निश्चिनोति चित्तं, तानेव च सन्धारयति । यानि कार्याणि शुभान्यशुभानि वा यथाकथञ्चित् अन्यमनस्कतयोपेक्षया वा वयं कुर्याम तेषां संस्कारा अनुपयोगिन ३६

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86