Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ ४ / १४९) नेशन्ति समाहितमनस्का भवन्त्यस्यामिति वा निशा । 'स्थादिभ्यः कः' ५/३/८२ ॥ इति कः । - " निशा दारुदरिद्रायां स्यात् त्रियामाहरिद्रयोः " [विश्वप्रकाशः, शान्तवर्गः, श्लोकः १४]" (तत्रैव, पृ. ७०) अस्यां वृत्तौ न केवलम् अमर - निघण्टु- विश्वप्रकाश-वैजयन्तीप्रभृतयः कोशा एवोदाहृताः, अपि तु मनुस्मृति-भागवत पुराण - शिशुपालवधादीनां ग्रन्थानां वचनान्यप्युदाहृतानि । (द्रष्टव्यम् - पृ. ९, ८५, ११७ इत्यादि) इत्थं वृत्तिकारेण विविधशास्त्राणां पाण्डित्यं यथास्थानं प्रदर्शितम् । अस्य ग्रन्थस्य सम्पादने समादरणीय-सम्पादकाभ्यामतीव परिश्रमः कृतोऽस्ति । अनुसन्धानदृष्ट्या परिशिष्टानां सङ्कलननिन्दनीयमस्ति । ग्रन्थस्य मुद्रणेऽपि यद्यपि भूरिपरिश्रमो विहितः, तथाऽपि केचन मुद्रणदोषाः सन्त्येव। ( द्र० - पृ. ५०, ८६ इत्यादि) विद्वज्जनैः ग्रन्थरत्नमिदं सर्वथा सङ्ग्राह्यमस्ति । जयति संस्कृतं संस्कृतिश्च । ~~~X~~~ ५०

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86