Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 75
________________ शनिवासरः भविष्यति । एवमेव अद्य यदि रविवासरः अस्ति, परह्यः शुक्रवासरः आसीत्, परश्वः च मङ्गलवासरः भविष्यति ।) अस्मिन् पाठे यः क्रमः निर्दिष्टो वर्तते स एव क्रमोऽस्माभिरत्र स्वीकृतः । वस्तुतस्तु स एव पाठः सन्दर्भितायाः रचनायाः बीजभूतः । (तं पाठं पाठम्पाठम् अभिव्यक्तिप्रभावन्यूनत्वात् उपदेशरहितत्वाच्च मया पूर्वमुपर्युक्तः पाठः परिकल्पितः, ततः पद्यशैल्याम् सा कृतिर्विचारिता काव्यत्वेन च आकारिता, या नन्दनवनकल्पतरौ प्रकाशिता । अथ च प्रसङ्गेऽस्मिन् ज्ञानप्रसादवितरणैकोद्देश्येन विज्ञाप्यते यत् - पुरा मैक्सिको - देशे ५, रोमदेशे ८, मिश्रदेशे एथेंसदेशे च १०, यहूदीजनेषु बेबीलोनप्रदेशेषु अमेरिकादेशस्थानाम् इंकाजनेषु ७ वासराः प्रचलिताः आसन् । ईसाईजना: रविवारं, यूनानिनः सोमवारं, पारिसनः मङ्गलवारं, असीरियनजनाः बुधवारं, मिश्र देशस्था: गुरुवारं यवनाः नाम मुस्लिमजना: शुक्रवासरं, यहूदिन: शनिवासरं च पवित्रम् स्वीकुर्वन्तीति दिक् । -x ६६ संस्कृतविभाग, भाषासाहित्यभवन, गुजरात युनिवर्सिटी, अहमदाबाद- ३८०००९ Email : [email protected]

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86