Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ आस्वाद: वैराग्यसत्सङ्गाभ्यां भगवत्प्राप्तिर्भविष्यति। डॉ. आचार्य रामकिशोर मिश्रः एतदस्माकं भारतमस्ति, यत्र जन्म गृहीतुं देवता अपि वाञ्छन्ति । यथा - अहो ! अमीषां किमकारिशोभनं, प्रसन्न एषां स्विदुत स्वयं हरिः । .. यैर्जन्म लब्धं नृषु भारताऽजिरे, मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ मनुष्यजीवनस्यैकैकश्वासोऽमूल्योऽस्ति । मानवोऽयमीश्वरकृपया वैराग्यसत्सङ्गाभ्यां परमपदं प्राप्तुं शक्नोति, परन्तु वयं मोहमदिरां पीत्वा मोहिताः स्मः । भगवता कृष्णेन मोहत्यागार्थमर्जुन उपदिष्टः । यथा ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय ! न तेषु रमते बुधः ॥ - श्रीमद्भगवद्गीता-५/२२ अतः समस्ततपस्सु वैराग्यं परमं तप उच्यते । यथा - तपसामपि सर्वेषां वैराग्यं परमं तपः । सांसारिकपदार्थेषु रागस्तस्य त्यागाद् वैराग्यं भवति । संसारे धनसम्पत्त्याः स्त्रीभिर्मनुष्यस्य तृप्तिर्न भवति । यथा - यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।। एकस्याऽपि न पर्याप्तमिति मत्वा शमं व्रजेत् ॥ कामनान्ते शान्तिर्भवति । जगति यत्सुखं स्वर्गे च यत्सुखम्, तत्सर्वं तृष्णानाशात् प्राप्तेन सुखेन समं नास्ति । यथा - न सुखं देवराजस्य, न सुखं चक्रवर्तिनः । यत्सुखं वीतरागस्य मुनेरेकान्तजीविनः ।। राज्ञा भर्तृहरिणा कथितं - ३८

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86