Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ सन्ध्याभ्ररागप्रतिमो हि लोके, निरीक्ष्यतेऽस्मिन् स्वजनानुरागः । विरूपतां याति प्रतिक्षणं यः, काऽऽस्था सतां तत्र विनाशशीले ? ॥१९॥ विमुच्य मोहं तत एव पूज्ये !, ___ अनुज्ञापय द्राङ् मम संयमाय । शुभाशिष चाऽर्पय मे प्रसद्य, यतोऽद्यतः स्वस्थमना भवेयम् ॥२०॥ स्थिरत्वमित्यात्मभुवोऽवगत्य, ___ स्नेहं जहौ तद्विषयं कथञ्चित् । . दधौ च चित्ते परमां प्रसत्तिं, ___ सुतः स्वकीयोऽजनि संयतो यत् ॥२१॥ निजं पुरं प्रस्थितयोहि पित्रोः . प्राप्यातिहर्षं स्तुतयोर्जनौधैः । स्वाध्यायमग्नो विनयेन नम्रः, - सत्प्रीतिपात्रं भवति स्म नेमिः ॥२२॥ स पाठकाच्छ्रीमणिशङ्कराऽऽख्यात्, प्रारब्धवान् व्याकरणादिपाठम् । जग्राह विद्यां प्रथमोदबिन्दु, महीव सच्छास्त्रविशुद्धबोधाम् ॥२३॥ ज्येष्ठस्थितिर्भावपुरे स्वकीया ऽऽद्याऽभूत् सह श्रीगुरुणा महद्धौ । उपादिशत्तत्र गुरुमहीयान् जैनागमं भव्यजनेभ्य इद्धम् ॥२४॥ इयेष सोऽभ्यासरतोऽपि चित्ते, व्याख्यानतो बोधयितुं मनुष्यान् । प्रागाभिधानं दरबारयुक्तं, पुरो निवेश्याऽभ्यसनं ततान ॥२५॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86