Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ भ्रातः किं शोचसि ? त्यज शोकं हृत्समाधिमाधत्स्व । ध्रुवमरणं जातस्ये - त्यागमवचनं च संस्मरतात् ॥४५॥ को नाम जगति शक्तो, मृत्युमुखाद् रक्षितुं जनं स्वीयम् ? । श्री तीर्थकृत्समा अपि तं नूनं नाऽतिवर्तन्ते ॥४६॥ पूज्या गुरवस्तु पुनः, संयममाराध्य निर्मलं सुचिरम् । उपदिश्य भव्यलोकान्, निजजननं सार्थकं चक्रुः ॥४७॥ अथ कार्यमेकमेवा-ऽस्माकं न्यायादिशास्त्रमभ्यस्य । प्राप्याऽतुलवैदुष्यं, तत्पट्टोद्भासनं कुर्मः ॥४८॥ इति तद्वचोऽपनीत-स्वगुरुवियोगार्तिराप्य हृत्स्वास्थ्यम् । संयमयोगे नित्यं, नियमितचित्तोऽभवन् मुदितः ॥४९॥ लघुसंयमपर्याये, वयसि लघौ गुरुवरं विना वसनम् । प्राप्तं तदपि न धैर्यं, जहौ स्वभाग्यैक विश्वस्तः ॥ ५० ॥ —0— १३

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86