Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 19
________________ ॥ अथ पञ्चमः सर्गः ॥ पुण्योदयपुरुषार्थ-द्वययोगात् प्राप्य संयमं वय॑म् । क्षुधितस्य मिष्टभोजन-मिव सोऽत्यन्तं मुदं प्रययौ ॥१॥ ग्रहणासेवनशिक्षा, गुरुसेवालीनमानसोऽधिययौ । संयमयोगालिखिला-निव स हि विदधे पुराभ्यस्तान् ॥२॥ प्रथमां चातुर्मासी, निजगुरुणा सह सोऽकरोद्धि भावपुरे । विनयविवेकादिगुणै-तिश्च गुरोः कृपापात्रम् ॥३॥ सिद्धान्तचन्द्रिकाव्यं, यो व्याकरणं पपाठ यत्नेन । बुधमणिशङ्कर-रेवाशङ्करबुधसन्निधौ तरसा ॥४॥ तबुद्धौ बुधकथिता, भावाः के तैलबिन्दुवत्प्रसूताः । परमां प्रीतिमुपागात्, तद् दृष्ट्वा शास्त्रिणां चित्तम् ॥५॥ प्राप्याऽतर्कितमपि यः, स्वगुरुनिदेशं ददावसंक्षुब्धः । पर्षद्यपि सुमहत्यां, व्याख्यानं कल्पसूत्रस्य ॥६॥ निजशिष्यो यदि कोऽपि, प्राज्ञः सिद्धान्तकौमुदी हि पठेत् । रम्यं तदेति बाढं, गुरुरनवरतं विचचार हृदि ॥७॥ ज्ञात्वा तदभिप्रायं, गुरोविनीतोऽवदत् स नेममुनिः । स्यायदि भवतामाज्ञा गुरो ! पठेयं च.तां प्रेम्णा ॥८॥ प्रीतो गुरुरिति वचसा, तस्मै प्रददौ शुभाशिषो बह्वीः । को नहि तुष्येत्स्वमनो-नुसारिणी गां निशम्य जनः ? ॥९॥ बुधभानुशङ्कारव्य-स्तत्राऽऽसीद् राजपण्डितो मुख्यः । तत्पाचे शुभ दिवसे, प्रारेभे कौमुदी स मुदा ॥१०॥ कौमुद्याः शास्त्रार्था-नवधार्य यथाश्रुतान् स गुरुवदनात् । अस्खलितं श्वो दिवसे, सर्वानश्रावयत् स गुरुम् ॥११॥ नाथालालश्चकितो-ऽप्यधीत्य काश्यां समागतो विद्वान् । यद्वाग्धारां वादे, श्रुत्वाऽस्खलितप्रचारां द्राक् ॥१२॥ काव्यं रघुवंशाख्यं, किरातकाव्यं च सोऽपठद् धीमान् । अपि वत्सरपर्याये, सतताध्ययनैकरतबुद्धिः ॥१३॥ प्रादुरभूत्तद्देहे- सातोदयतो ज्वरो महास्निग्धः । अपि वत्सरे व्यतीते, नोपायशतैर्व्यपेतः सः ॥१४॥ १. कं-जलम्, तस्मिन् ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86