Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ उत्तमे उत्तमं च स्या-दाहते स्यादनाहतम् । उदारे चानुदारः स्या-दुदने वानुदग्रवत् ॥१२॥ बन्धूरं बन्धुरं च स्या-दूरीकृतमुरीकृतम् । वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च ॥१३॥ उषाप्यूषा ननादा व (?) ननान्दा च प्रकीर्तिता। हीबेरे हिरिबेरं च चिकुरे चिहुरोऽपि च ॥१४॥ चण्डालोऽपि च चाण्डालो वदान्योऽपि वदन्यवत् । हालाहलं हालहलं वदन्त्यपि हलाहलम् ॥१५॥ डाहालं च डहालं च डाहलं च प्रचक्षते । कुङ्कणः कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च ॥१६।। सहाचरः सहचरः स्फटिकं स्फाटिकं तथा । गन्धर्वोऽपि च गान्धर्व-श्चमरं चामरेऽपि च ||१७|| चोरश्चौरश्चटुश्चाटु-श्चेलं चैलं चमुश्चमूः । चञ्चश्चञ्चूस्तलस्तालः श्यामलः श्यमलोऽपि च ॥१८।। महिलायां महेलापि महेला स्यान्महेलिका । छेकश्छपिल्लश्छेकालो विदग्धे छेकिलोऽपि च ॥१९॥ गुग्गुलौ गुग्गुलोऽपि स्या-द्विगुलो(लः)चापि हिङ्गलम् । मन्दिरे मंदिराऽपि स्याद् (?) वीर्ये वीर्याऽपि कथ्यते ॥२०॥ धन्याकमपि धान्याकं युतकं यौतकं तथा । कवाटं च कपाटं च कविलं कपिलं मतम् ॥२१।। करवालः करवालो(?ला?) वनीपक-विनीयको । पारावतः पारापतो जवा स्याज्जपया सह ॥२२॥ जटायुषा जटायुं च विदायु(विदुरायु) तथाऽऽयुषा । सायं सायो भवेत् कोशः कोषः शण्ढश्च घण्ढवत् ।।२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24