Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229404/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ महेश्वरकविरचिता संशयगरलजाङ्गली-नाममाला - सं. विजयशीलचन्दसूरि आ महेश्वर कवि विशे मने जाणकारी नथी. मात्र हस्तप्रतमां आ नाममाला जोई, तेमांना शब्दोनुं वैविध्य जरा महत्त्वपूर्ण तथा चमत्कृतिजनक जणातां, ते शब्दना तथा भाषाना अभ्यासुओने उपयोगी थाय तेवू लागवाथी तेनुं संपादन अहीं रजू कर्यु छे. आ नाममाला हजी प्रकाशित नथी थई, एवी मारी धारणा छे. ओछामां ओछु, मारा जाणवा-जोवामां तो हजी नथी आवी. आ नाममालानी प्रति भावनगरनी जैन आत्मानन्द सभामा छे. कुल ७ पत्रोनी आ प्रतमां पत्र १ थी ५मा प्रस्तुत कृति छे, अने पछीना पृष्ठोमां 'हैमनाममालाशिलोंछ' छे, जे अपूर्ण रही गयो छे. प्रस्तुत कृतिना छेडे लखेली पुष्पिका उपरथी जाणवा मळे छे तेम, आ प्रत सं. १७९९मां जैनमुनि जिनेन्द्रसागरे स्तंभतीर्थमां लखेली छे. नाममालाना २३४-३५मां पयो परथी महेश्वर कवि शब्दशास्त्र, वैद्यक वगेरेना समर्थ विद्वान, कवि तथा 'साहसांकचरित' वगेरे ग्रंथोना प्रणेता होवानुं समजाय छे. नाममालाना प्रथम पद्यमां जणाव्युं छे तेम, आनुं नाम 'शब्दभेद प्रकाश' पण छे. प्रतिलेखके 'संशयगरलजाङ्गली' एवं नाम, २३७मां पद्यमांना 'संशयं च निराकर्तुं ए अंशने ध्यानमा राखीने प्रयोज्यं होय के पछी तेमनी पासे आ रचनाने आ नामे ओळखवानी परंपरा पण होय तो ते संभवित छे. नाममाला बे मुख्य भागोमां विभक्त छ : पहेलो भाग 'शब्दप्रभेद निर्देश' छे, जेमां मुख्यत्वे जुदा जुदा शब्दोमां थता सामान्य फेरफारोने लीधे बनता शब्दोनुं निरूपण छे. बीजा भागमां ब, व, श, ष, स वगेरेनुं प्राधान्य विचारीने एकत्र करेला शब्दजूथो छे. आशा छे के आ रचना शाब्दिकोने उपयोगी बनशे. Page #2 -------------------------------------------------------------------------- ________________ ।। श्रीधवलधिंग-श्रीगोडीपार्श्वनाथाय नमः ।। प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याऽपि सतां कवीनाम् । कृतो मया रूपमवाप्य शब्द-भेदप्रकाशोऽखिलवाङ्मयाब्धिः ॥१ प्रायो भवेद् यः प्रचुप्रयोगः प्रामाणिकोदाहरणप्रतीतः । रूपादिभेदेषु विलक्षणेषु विचक्षणो निश्चिनुयात् तमेव ॥२॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखात् शब्दानां रूढितः क्वचित् ॥३॥ जागर्ति यस्यैष मन:सरोजे स एव शब्दार्थविवर्त्तनेशः । निजप्रयोगार्पितकामचारः परप्रयोगप्रसरार्गलश्चेत् ॥४॥ विन्द्यादगारमागार - मपगामापगामपि । अरातिमारातिमथो अम आमश्च कीर्तितः ।।५।। भवेदमर्ष आम!-ऽप्युङ्करोऽङ्कर एव च । अन्तरीक्षमन्तरिक्ष-मगस्त्योऽगस्तिरित्यपि ॥६।। अटरूष आटरूषोऽवश्याऽवश्याय इत्यपि । प्रतिश्यायः प्रतिश्या च भल्लूको भत्छुकोऽपि च ।।७।। जम्बूकं जम्बकं प्राहुः शम्बूकमपि शम्बकम् । जतुका स्याज्जतूकाऽपि मसुरः स्यान्मसूरवत् ॥८॥ वास्तुकं वापि वास्तूकं देवकी दैवकी [तथा] । ज्योतिष ज्यौतिघं चापि टेवनं ष्टीवनं तथा ॥९॥ सूत्रामाऽपि च सुत्रामा हनूमान् हनुमानपि । उषणं स्यादूषणं च भवेदुखरमूखरम् ॥१०॥ हारीतो हारितोऽपि स्यान्मुनि-पक्षिविशेषयोः । तुवरस्तूबरोऽपि स्यात् कुबर: कूबरोऽपि च ।।११।। Page #3 -------------------------------------------------------------------------- ________________ उत्तमे उत्तमं च स्या-दाहते स्यादनाहतम् । उदारे चानुदारः स्या-दुदने वानुदग्रवत् ॥१२॥ बन्धूरं बन्धुरं च स्या-दूरीकृतमुरीकृतम् । वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च ॥१३॥ उषाप्यूषा ननादा व (?) ननान्दा च प्रकीर्तिता। हीबेरे हिरिबेरं च चिकुरे चिहुरोऽपि च ॥१४॥ चण्डालोऽपि च चाण्डालो वदान्योऽपि वदन्यवत् । हालाहलं हालहलं वदन्त्यपि हलाहलम् ॥१५॥ डाहालं च डहालं च डाहलं च प्रचक्षते । कुङ्कणः कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च ॥१६।। सहाचरः सहचरः स्फटिकं स्फाटिकं तथा । गन्धर्वोऽपि च गान्धर्व-श्चमरं चामरेऽपि च ||१७|| चोरश्चौरश्चटुश्चाटु-श्चेलं चैलं चमुश्चमूः । चञ्चश्चञ्चूस्तलस्तालः श्यामलः श्यमलोऽपि च ॥१८।। महिलायां महेलापि महेला स्यान्महेलिका । छेकश्छपिल्लश्छेकालो विदग्धे छेकिलोऽपि च ॥१९॥ गुग्गुलौ गुग्गुलोऽपि स्या-द्विगुलो(लः)चापि हिङ्गलम् । मन्दिरे मंदिराऽपि स्याद् (?) वीर्ये वीर्याऽपि कथ्यते ॥२०॥ धन्याकमपि धान्याकं युतकं यौतकं तथा । कवाटं च कपाटं च कविलं कपिलं मतम् ॥२१।। करवालः करवालो(?ला?) वनीपक-विनीयको । पारावतः पारापतो जवा स्याज्जपया सह ॥२२॥ जटायुषा जटायुं च विदायु(विदुरायु) तथाऽऽयुषा । सायं सायो भवेत् कोशः कोषः शण्ढश्च घण्ढवत् ।।२३।। Page #4 -------------------------------------------------------------------------- ________________ 155 तविशं तविषं चापि मुशलो मुषलोऽपि च । वेशो वेषश्च कथितः स्याद् 'बुशोऽपि बुषोऽपि च ॥२४॥ स्यात्तनुस्तनू(नु)षा सार्द्ध धनुना च धनुर्विदुः । शूकरः सूकरोऽपि स्यात् शृगालश्च संगालवत् ॥२५॥ शूरः सूरश्च तरणौ कलश: कलसोऽपि च । शूनासीस: सुनासीरो नारायण-नरायणौ ॥२६।। जाम्बवान् जाम्बवोऽपि स्या-लक्ष्मणो लक्षणोऽपि च । संस्तरः स्रस्तरोऽपि स्यात् चरित्रं चरितं तथा ॥२७॥ पारतं पारदं वास्त्रो वासरः कृमिवत् क्रमिः । तृफला त्रिफला चापि तृणता त्रिणताऽपि च ।। २८॥ भवेद् ऋष्टिस्तथा रिष्टिः प्रियाल: स्यात् प्रयालवत् । कणाटीनः कटाटीनो वातको वातगोऽपि च ॥२९।। मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च । मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥३०॥ मत्कुर्ति मुत्कुति(?) चापि चलुकं चुलुकं यथा । करंज: करजोऽपि स्यात् परेतः प्रेतवन्मतः ॥३१॥ किर्मीरोऽपि च कर्मीरो २ डयनं हयनं समम् । शौण्डि(ण्डी)र्यमपि शौण्डीरं ज्येष्टे ज्येष्टोऽपि दृश्यते (?) ॥३२॥ शुक्के (क्ले ?)ऽप्यवानं वानं (?) स्यादुदके स्याद्दकं दगम् । कुष्टभेदे शतरुषा शतारुश्च निगद्यते ॥३३॥ द्रेक द्रेष्काण द्रष्काणा भवन्त्यपि २ हकाणवत् । पत्रङ्गमपि पत्राङ्गे कुद्दालच कुदालवत् ॥३४॥ १. कडंगरनाम || २. विमाननाम ।। ३. गोषरूं Page #5 -------------------------------------------------------------------------- ________________ " मारिषं मौरुषं शाके प्लीहरोगे प्लिहापि च । फेला फेलिस्तथोच्छिष्टे काकिण्यां काकणीति च ॥३५।। सौदामिनी च सौदाम्नी ५ सौदामन्यपि चेष्यते । जठरे जठरोऽपि(?)स्यात् निमिषे निमिषो(?)ऽपि च ॥३६।। बुको बकश्च कुसुमे मदनों मथनोद्गमे । आरग्बधारगबधौ क्षुरकक्षुरुकावपि ॥३७॥ प्रष्टिः प्रष्टश्च सरयुः सरयूश्च निगद्यते । नीलपि नीलाङ्गु - रीश्वरी चेश्वरापि च ॥३८॥ तापिच्छमपि तापिच्छं त्रपुषं त्रापुषं तथा । डिंडीरोऽपि च हिण्डीर: परशुः पशुना सह ॥३९॥ वालिका वालुका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा त्विषिस्त्विड्वत् सन्ध्या स्यादि(त्) सन्धिवत्पुनः ॥४०॥ भगिनीमपि भगनी च झल्लरी झलरी विदुः । रे(?)च रेतसा सार्द्ध-मेधमाहुस्तथैधसा ॥४१॥ संवननं संवदनं तरुणी तलुनीति च । प्रमूदावनं प्रमदवनं च परिकीर्तितम् ॥४२॥ 'खुरुलिका स्यात् खुरली वजं वज्राशनिस्तथा । शिलमुब्छं शिलोञ्छं च भवेदुञ्छशिलं तथा ॥४३॥ धरित्री धरयित्री च तविषी - ताविषी तथा। वास्तुदेवोऽपि वास्तुः स्यात् वामदेवोऽपि वामवत् ।।४४|| आशीराश्यहिदंष्ट्रायां लक्षीलक्ष्मीहर: स्त्रियाम् । ९ रुचको रुचकौ प्रोक्ता-वुरुचुकोऽपि तादृशः ॥४५।। ४. तांदलजाना नाम ।। ', . बीजलीनां नाम !! ६. वशीकरणनाम ।। ५. शस्त्राभ्यास नाम : . ८. तविषी ताविषीं शब्देन अट्रस्ताच्यते ।। ९. एड नाम ।। Page #6 -------------------------------------------------------------------------- ________________ कुमुदं च कुमुच्चापि योषिता योषिदित्यपि । शरद् भवेत शरदया प्रावृट् प्रावृषया सह ॥४६।। नभं तु नभसा साकं तपं तु तपसा समम् । सहं च सहसा सार्द्धं महं च महसा धुतौ ॥४७॥ तमसेन तमः प्रोक्तं रजेनापि रजः समम् । शाब्दिकैस्तु जलौकाभिः कथितोऽयं जलौकसः ॥४८॥ दिवं प्रोक्तं दिवातुल्यं पर्षत् परिषदा सह । वर्षाः स्युर्वरिषाभिश्च हर्षोऽपि हरिषेण च ॥४९॥ सर्षपः सरिषपश्च कर्षः स्यात् करिषेण च । माषो मारिष इत्युक्तः स्पर्शोऽपि स्परिशो यथा ॥५०॥ एवमन्येऽपि बर्हादा-वूष्मवर्णाः प्रयोगतः । मूद्धरेफा विकल्प्यन्ते छन्दोभङ्गभयादिना ||५१।। दक्षिणास्यामपाच्येव प्रायं त्वनशने विदुः । छन्दावभिप्रायवशौ कलज्ञः स्यात् कलाविदि ।।५२।। समूहार्थस्य जातस्य चवगादिच्छ(चवर्गादित्व ? ) मीरितम् । अन्तस्थीययकारत्वं यवसस्य तु कथ्यते ॥५३॥ तन्तुवायस्य वाग्रेऽपि तन्त्रादित्वं च दृश्यते । तुर्यस्वरादिरीर्वारुः कर्कट्यां पठ्यते बुधैः ।।५४|| हस्वादिरर्तिः पीडायां धनुः कोट्यामपीष्यते । एतौ मध्यतवर्गीयौ वैदूर्यमणि-शाबलौ ॥५५॥ तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः । चुल्यामुत्पूर्वकं ध्मानं धानं हानं च वर्तते ॥५६।। तालव्यमध्यो विशद उर्ध्वशब्दो वकारवान् । यवानी स्याद् वमध्यैत्र श्रावणो मासि मध्यवः ।।५७॥ Page #7 -------------------------------------------------------------------------- ________________ शफे खुरं कवर्गीयं खकारं चक्षुरक्षके । नापितस्योपकरणे कषसंयोग इष्यते ॥५८|| अव्ययानव्ययं दोषा-शब्दे (?) रात्रौ प्रचक्ष्यते । कन्याकुब्जं कन्यकुब्जे कोशलोत्तरकोशला ॥५९॥ वाराणसीत्यपि प्रोक्ता तथा वाणारसीति च । तामलिप्ती दामलिप्ती द्रङ्गोऽप्या (पि?) द्राङ्ग इत्यपि ॥६०॥ नन्दीश्च नन्दिपनी च(नन्दिः पत्री च?)पत्रिः स्याद्वस्नसा स्वसा । यमलं यामलं द्वन्द्वं दन्द्वं खडिलखल्लिडौ ॥६१।। जनित्री जनयित्री च कफोणि: कफणिस्तथा । वल्मीकोऽपि च वाल्मीको वाली वालिश्च कथ्यते ॥६२।। सुमेन सार्द्धं कुसुमं मरन्दो मकरन्दवत् । अहितुण्डिकमित्याहु-स्तथा स्यादाहितुण्डिकः ॥६३।। विद्यादण्डीरमाण्डीर-मणिः स्यादाणिवत् पुनः । आमण्डमण्डावेरण्डे प्रियकेऽप्यासनोऽसनः ॥६४।। अपिशलिमुनिभेदे भवेदापिशलिस्तथा । चन्द्रभागा चन्द्रभागी खनौ खानिरपि स्मृता ॥६५!। गोनासगौनसौ सर्प फल्गुनः फाल्गुनोऽर्ज(र्जु ?)ने । स्यात् तर्जन्या युतेऽङ्गुष्ठे प्रादेशोऽपि प्रदेशवत् ।।६६।। गजे मतङ्गमातङ्गौ नागे कालीयकालियौ । रोहीतके रोहितको-ऽप्यपष्टुरेऽप्यपष्टू(ष्ट ?)रम् (?) ॥६७|| इषिका स्यादिषीकाऽपि वानायुजवनायुजौ । गुवाकोऽपि च गु(गू)वाकः कुचकूचौ स्तनेभयोः ।।६८।। कूकरे च कुणिः कूणिः नोकौ(?) कुलककूलको । पोगण्ड: स्यादपोगण्ड: उलूतः स्यादतृतवत् ॥६॥ Page #8 -------------------------------------------------------------------------- ________________ 19 काकाचिके काकचिके भवेद् ऋश्यस्तु रिश्यवत् । वातूलो वातुलोऽपि स्यात् कैकेयी केकयीत्यपि ॥७०॥ विरञ्चिश्च विरिञ्चोऽपि ब्रह्मण्यपि विरञ्चनः । वरुटो वरुडोऽपि स्याद् विक्कपिकौ गजार्भके ॥७१॥ कर्करेट करेटुश्च कुर्कुरः कुक्करोऽपि च । अम्बरीषश्चाम्बरिष-मुत्पले कुवलं कुवम् ॥७२॥ कुमारिले कुमारि मन्थिर्मन्थो मथोऽपि च । वज्रा वज्री स्नुही भाग्यो-र्वस्ट्यां वरटाऽपि च ॥७३॥ कैटभा कैटभीश्चर्यो (?) कन्दर्यां कन्दराऽपि च । भिदिर्भेदश्च कुलिशे वातिर्वाते कूठे कुठिः ॥७४॥ करे करिर्जटायां तु जटिः शिल्यां शिलापि च । पुलिन्दे स्यात् पू (पु) लीन्द्रोऽपि निषादिश्च निषादिनि ॥ ७५ ॥ यतिश्च यतिनि प्रोक्तः सृक्विणी सृक्वसृक्वि च । वहितं च वहित्रं तु निचुले हिज्जलेज्जलौ ॥७६॥ विखविख्रस्तथा विग्रे नासाया विगमादिति । अमतिश्चामतिः काले रजन्यां च तमा तमी ॥७७॥ विश्वप्सश्चापि विश्वप्सा सिध्मः सिध्म च कथ्यते । स्याद् वृक्का वृक्कया सार्द्धं धर्मे धर्म च कीर्तितम् ॥७८॥ उष्मया सार्द्धमुष्मापि मज्जोक्ता मज्जया सह । शेफशेफौ च शेवश्च शेषं प्रोक्तं च शेफसा ॥७९॥ प्रापुन्नाटकमित्याहुः प्रपुन्नाटप्रपुन्नटम् । अररश्चारस्श्चिापि कवाटे स्यात्कूवाटवत् ॥८०॥ भल्लो भलिच बाणे स्याद् दले पात्रं च पत्रवत् । इर्ममीम णेऽपि स्यात् निर्झरे तु झरो झरा ॥८१॥ Page #9 -------------------------------------------------------------------------- ________________ भवेदमात्येऽप्यामात्यः पीनसे स्यादपि(पी)नसः । अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम् ॥८२॥ यूषश्च यभनं यातु यकारद्धयवन्मतम् । पुरुणा च परुग्रन्थौ काश्मीरी कश्मिरीति च ॥८३।। मातुलिङ्गे मातुलुङ्गः कदल्यां कदलोऽपि च । परुषकफले प्रोक्तं परुषं फरुषं यथा ॥८४॥ नारङ्गे नागरङ्गोऽपि स्याद्विसेऽपि विसंडकम् । वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते ॥८५।। किसलं स्यात् किसलयं गुच्छे गुच्छो गुलञ्छ्वत् । आम्रातकं स्यादम्लात-ममिलातकमित्यपि ॥८६॥ जम्बीरेऽपि च जम्भीरो जूर्णायां जूर्णी(णि ?) रित्यपि । तित्तिरौ तित्तरोऽपि स्यात् पीलकः स्यात् पिपीलके ।।८७।। गोदा गोदावरी नद्यां मथुरा मधुरा पुरि । कवियं कविकायां च स्याद् गवेधौ १ गवेधुका ।।८८॥ मञ्जुषायों च पिटकः पेटा पेटक इत्यपि । पादातौ च पदातिश्च पादातिश्च पदातिकः ॥८९॥ पादत्राणे तु पन्नधी, भवेत् प्राणहिताऽपि च । जलावुका जलौकायां गैरिके च गवेरुकम् ॥९०।। नासिकायां च नकं स्याद् वक्रे वंकोऽप्युदाहृतः । सरणी च प्रसारण्यां मुष्के स्यात् फलकं फलम् ।।९१।। भवेद् दाढाऽपि दंष्ट्रायां शाल्मल्यां शाल्मलीति च । वध्वां च वधूकाऽपि स्या-दञ्जन्यामञ्जनाऽपि च ॥९२।। १... धान्य ।। Page #10 -------------------------------------------------------------------------- ________________ हस्वान्ता स्यादलाबुश्च दीर्घादिश्च प्रतीयते । उर्णनाभ इदन्तश्च किकीदिविः किकीदिवे ||९३।। करेटो(टौ ?) करटुश्चापि दूत्यां दूतिरपि स्मृता । स्यानिचोले निचुलकं स्यादसिक्तामसिक्तिका ॥१४॥ जीव(वं)जीवे जीवजीव-श्चालन्यामपि चालनम् । स्यूते स्यूनं तथा स्योन-मभ्युषेऽभ्योष इत्यपि ॥९५॥ करम्बो मिश्रिते बातो (?) भांतस्तु दधिसक्तुषु । आमीक्षा हुस्वमध्याऽपि मध्यौकारं च यौतकम् ।।९६॥ धुवित्रं निरुकारं च स्याद् ऋषौ रिषि इत्यपि । इरिणं स्याच्च दीर्घादिः कृषके कृषिकोऽपि च ॥९७|| तालव्यदन्त्ययोरुक्ते सर्वला सर्वलीति च। तालव्यद्वयमध्योऽसा-वाशुशुक्षणिरीक्ष(क्ष्य)ते ।।९८॥ विष्णौ दाशार्ह इत्यस्य मध्यतालव्यता मता । तालव्यान्तश्च कोटीशः प्रासस्तालव्य-दन्त्यायोः ।।९९॥ दन्त्योपान्तं तु कूर्पास-महानसमलीमसम् । कांजिकादौ तु कुल्माषो दन्त्योपान्त्योऽपि कीर्त्यते ॥१००|| आदिदन्त्यं तु सुषवी सम्बाकृतसमूरुचः । कुसीदं च कुसूलं च मध्यदन्त्यमुदीरितम् ॥१०१।। पारावार: प्रंमध्योऽपि सोपानं दतु समादितु (दन्त्यमादि ?) । विश्वस्ता स्याद् वमध्यैव न विशस्तेत्युदाहृता ।।१०२।। स्यात् कवर्गद्वितीयादि ख्वंतादिरपि क्षुल्लकः । स्यात् पवर्गद्वितीयादि फणायां तु फटाऽपि च ॥१०३॥ त्रयोदशस्वराास्तु शोभाञ्जन उदाहृतः । तनूनपात् तकारान्तो न तवर्गतृतीय भाक् ।।१०४।। Page #11 -------------------------------------------------------------------------- ________________ तवर्गपञ्चमोपान्त-मङ्गनं केवलं पुनः । हाहाशब्दस्तु सान्तोऽपि, कथितो दिव्यगायनः ।।१०५।। चतुःशाले चवर्गीय-मध्यं संजवनं विदुः ।। पवर्गमध्यः सान्तश्च रेफ: स्यादधमार्थकः ॥१०६।। अन्तस्थमध्यं वैयात्यं वेन्मि(मि ?) वेमश्च वेम च । कमने कामनोऽपि स्याद् दीर्घादिः कूकुदः स्मृतः ॥१०७।। प्रभायामपि भाः शब्दः सान्त पुल्लिङ्ग एव च । एक(ड?) मूकेऽडनेमूक: सूर्यां सूर्मिरपि स्मृता ।।१०८।। एडूकं हुस्वमध्यं च ह्रस्वान्ता च पदव्यपि । शैवाले स्याच्च शेवालं शेवलं शैवलं तथा ॥१०९|| तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च । चित्रे च चित्रलोऽपि स्या-च्चितायां चित्तियाऽपि च ॥११०॥ छन्दसि स्यादनड्वाही भाषायामनडुह्यपि । . मध्येकारोऽपि चिपिटो हुस्वादिश्चारणोऽप्यवौ ॥१११॥ उत्तमायां गवि प्राहु-रैकारादि च नैचिकीम् । साच्यर्थे साचिरप्युक्ता भूतार्थे च तथस्तथा ॥११२।। चवर्गादिरपि प्रोक्ता यामिः स्वसृकुलस्त्रियोः । वातासहो वातसहो वातूले स्यादिदं द्वयम् ॥११३।। अप्सर: स्वप्सरा प्रोक्ता सुमनाः सुमनःसु च । बर्बरी बर्बरा शाके विवुत्तं हल्चतुष्टयम् (?) ॥११४॥ तन्द्री तन्द्रिश्च तन्द्रायां कुरङ्गे च कुरङ्गमः । प्रथगच्छश्च? भल्लश्च भालूकेऽप्यच्छभल्लवत् ।।११५॥ जलायुके जलोकं च जलौकं च जलूकवत् । घोघके (?) सांबुकं क्वापि बुध्ने ब्रघ्नश्च दृश्यते ।।११६।। Page #12 -------------------------------------------------------------------------- ________________ लङ्गलमपि लाङ्गलं भंभरा भंभराल्यपि । त्वचि त्वचः किरोऽपि स्यात् किरौ प्रोक्तः पथः पथि ॥११७॥ अजगावाजकावेव भवेदाजगवं तथा । पिनाकेऽजगवं चाथ सैहिकेये तमस्तथा ॥११८॥ चुलुकी चुलुपी च स्या-दुलूपी शिशुमारके । अगाधेऽस्थागमस्थाघ-मस्तघं च प्रयुज्यते ॥११९।। स्यान्मध्योभचतुर्थत्व(?)-महसो रहसस्तथा । चिह्न ललामशब्दोऽपि स्याददन्तश्च पुंसि च ॥१२०॥ द्रविडः स्यान्ममध्योऽपि काफलं चापि कत्फले। व्रीडायां च भवेद् व्रीडो लज्जामात्रेऽप्यपत्रपा ।।१२१।। उडुकं मध्यहस्वं च हुस्वादिः स्यादलिन्दकः । तथा कुरबके रेफो निरुकारः प्रयुज्यते ॥१२२॥ मंजिष्ठायां तु भण्डीरी मध्यह्रस्वाऽपि पठ्यते । दीर्घादि वृश्चिके च स्या-दली स्यादालिरित्यपि ॥१२३।। वु(वृ)को वृक्का स्मृतौ वृल्कि ग्रैवं ग्रैवेयकेऽपि च । ख) खोडश्च खोस्च स्यात्तरा तरिरित्यपि ॥१२४|| नासिकायां च नस् वापि मथि मन्थाक इत्यपि । कार्तस्वरं मध्यदन्त्यं सेहुड: स्यात् सिहुण्डवत् ।।१२५।। उष्ट्रोऽदन्त्यो लुलायोऽपि मारुतेऽपि हलं तथा । विद्यात् पुरुरवःशब्दे रुंकारस्यापि दीर्घता ॥१२६॥ स्यात् कुरण्डोऽपि दीर्धादिः सुरज्येष्ठोऽपि सम्मतः । नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान् ॥१२७।। काण्डे शर: शुभं क्षेमे शार: शबलवातयोः । किशुकश्च शुकश्चापि स्मृता(तौ) तालव्यदन्त्ययोः ।।१२८।। Page #13 -------------------------------------------------------------------------- ________________ सूनाशुगास्तुरङ्गास्तु दन्त्यतालव्ययोरपि । कोटिशश्चाप्यदन्त(न्त्य)स्तु ऋभृक्षः स्वर्गवज्रयोः ॥१२९॥ कि(किं)नराश्वमुखौ भिन्ना भिन्नौ दैत्यासुरादिवत् । रिष्टारिष्टे अभिन्नार्थे भिन्नार्थे च क्वचिन्मते ॥१३०॥ वाग्मी वाल्मीकमित्रोल्का-सत्रछत्रपतत्रिणः । संस्कर्तेत्यादिसंयोगि शब्देष्वनुपयोगिषु ॥१३१॥ इदं तुल्याक्षरद्वन्द्वं स्यान्न चेद् भेदकं क्वचित् । यमकादावपीत्येषा चिन्ताऽस्माभिरुपेक्षिता ।।१३२॥ तथा ह्यपश्यदद्राक्षी-दित्यत्रार्थे क्रियापदम् । आपः पयस्तनूकूर्व-दित्यन्यत्र पदद्वयम् ॥१३३॥ इति शब्दप्रभेदनिर्देशः समाप्तः ॥ अथाद्यदन्तौष्ट्यवकारभेदः ॥ वृन्दारक व्रज वराटक वंदि वंदा वन्दारु वैर बदरी विटपान्वितं च । विद्वद् व्रणौ वरण बृंहण बोध बेधबन्धूर बन्धु बधिरान् वध बन्ध वृद्धान् ।। १३४।। १ वेलावलौ बहुल बाहुलक व्यलीकबोलं बिलं बलज बालक वालुकाश्च । बेहद् बृहद् बहल वाहन बाहु बभ्रुवस्तं बलिं वन बलाहक वंक वीथी: ॥१३५।। २ वालेय वंजू(जु)ल वराह बका बलाका वालूकिका वकुल बुक्क बकेसकाश्च । बारुंड बाढ वरटानपि बार्वटीर वारुंड बंडक वरंडक वर्वटीश्च ।।१३६।। ३ Page #14 -------------------------------------------------------------------------- ________________ 25 वाहिनीं वनितां वेदी वाणिज्यं वारिबन्धनम् । वरत्रां वर्द्धनी व्र()तं वटकं वसुकं बटम् ।।१३७॥ ४ वासनावासिता वास्त्र-वीर वासर वागराः । ब्राह्मणी वाणिनी वाणी वानीरं वानरं वचाम् ॥१३८।। ५ विहगाख्यं विशब्दं चा-ऽप्यव्ययं चेति वेति च । वर्तरूकं वदान्यं च विद्याद् वाद्यं च वादितम् ।।१३९॥ ६ आद्यौष्ठ्याः पवर्गीयाः ।। अथ मध्यपवर्गीयाः कर्बर: क—राबरे । बर्वरी शर्वरी वारु शम्बराडम्बराम्बरम् ॥१४०॥ ७ कम्बलं शम्बलं चास्त्रं सर्बला शाबलोऽपि च । नद्वला बेल जम्बाल - शेबालाश्च प्रकीर्तिता ॥१४१।। ८ कथ्यन्तेऽथ पवर्गीया बान्तशब्दाश्च केचन । गन्धर्वखर्वगर्वाह्वो जिह्वा पूर्वश्च दूर्वया ।। १४२॥ ९ रोलम्बः शतपत्रोर्वी दार्वी चार्वी च दर्विवत् ॥ ० ॥१४३।। १० कदम्ब कादम्ब नितम्ब बिम्बा निम्ब प्रलम्बाम्बु विडम्ब बिम्बाः । करम्ब हेरम्ब कुटुम्ब कम्बा - स्तुम्बी कलम्बी शब लुम्बि चुम्बाः ॥१४४|| ११ जम्बू: कम्बूरलाबुश्च शम्बः शुम्बोऽम्बया सह । शिम्बा लम्बा च ताडम्ब-गुडुम्ब स्तम्ब कम्बयः ॥१४५।। १२ पवर्गीय बकारनिर्देशः । अथान्तस्थवकारः ॥ विन्दु विद्रुम वरेण्यविक्रमा बिंब वर्त्म विशदाश्च विद्यया । गात्र [ीर ] : वर्कस पार्दरी वशिर वार वानराः ।।१४।।१३ Page #15 -------------------------------------------------------------------------- ________________ 26 वाम वामन विमान वेदना: वान(न्त) विन्त वमनं विरेचनम् । वात वातिक वितान वर्तनी वर्ति वेतन वसन्त वृत्तयः ।।१४७॥१४ वार्ता विच्छित्ति वृत्तान्त वितण्डाश्च विनुन्तनम् । विकटो वैकटिके व्युष्टि-विष्टिविष्टरवेष्टनम् ॥१४८॥ १५ वल्लूरो वल्लरो वल्ली वेलितं वल्लभोऽपि च । विदेहोऽवग्रहो बर्हो बहिर्वहिविहायसः ॥१४९॥ १६ वहिनं विकचो वीचि-वर्चीवञ्चकवाचकाः । वधूकवीवधविधा वेधा विधु वधू वृकाः ॥१५०॥ १७ विवेको वर्णकं वेणी वीणा विपणि वेणवः । विषाणं वीरण बाणौ वपावाप्यौ वपुर्व्ययः ॥१५१॥ १८ वैशाखो विशिखो वाह-व्यूह वर्म विषं वृषः । विषयं वर्षणं बीजं वाजं वृजिन वर्जने ॥१५२॥ १९ व्यञ्जनं व्यजनं वज्रं वैजयन्ती विशारदः । वालवं वाल वाल्मीक-वामिला वाल्हिको वली ॥१५३॥ २० वाले र (?) विचकिलो वंग विडंगं वेग वर्गणम् । विवशो वासि वेशः [स्यात् वैश्य विश्रंभ वेशयः ॥१५४।। २१ विश्व विश्वस्त विश्लेष-वेश व्यसन वासयः । वायसो वहसो वत्सो वीतंसो वसतिर्वसुः ॥१५५।। २२ विदारी विवरो वीरुदित्याद्यन्ताश्च वादयः । अथापि मध्यदन्तौष्ट्याः कथ्यन्ते केचनाऽपरे ॥१५६॥ २३ देवकीसेवकावुत्त-प्रावाराः प्राध्वरोऽपि च । तन्तुवायापवरको गोविन्दश्रावणोल्बणम् ।।१५७॥ २४ अध्वा धध्वा (?) युवा व (?) मघवाथर्वपर्वणी । दन्तौष्ठ्यवान्तशब्दानां संग्रहः क्रियतेऽधुना ॥१५८॥ २५ Page #16 -------------------------------------------------------------------------- ________________ मध्यदन्तौष्ठ्याः ॥ राजीव जीव जव याव विभाव भावमर्हाव दाव दव दैव दिव द्रवं च । नि:पाव पौतव धवाभिषवाः शराव - संराव पारशव सैधव शारिवाश्च ॥१५९।। २६ आदीत(न?)वापहव मार्कवाणि - धामार्गवो भार्गव पुङ्गवौ च । श्रुवा-ध्रुवा- कैरव कैतवानि सवाडवान्याहवरौरवौ च ॥१६०॥ २७ क्षुव: प्लव: पेलवश्च पल्लवो वल्लवो लवः । शैवः शिवश्च सचिवौ गाण्डीवस्ताण्डवोद्धवौ ॥१६१॥ २८ केशव प्रसव क्लीव-क्षीवाः शिविरविच्छविः । अविः कविः पविर्गीवा-कारवी सुबवीगवी ॥ १६२॥ २९ अटवी कोटवी प्रथ्वी लघ्वी लद्वाच (?) खर्चया (?) । स्वमश्वसत्त्वसान्त्वोर्ध्व-तत्त्वं किण्वं च मुण्वत् (?) ॥१६३||३० प्राध्वं पाश्र्वं च पक्वोल्लं द्वन्द्वं बिल्वं च नल्ववत् । अवे वै वाऽव्ययं चान्ये कथ्यन्ते च विचक्षणैः ॥१७०॥ ३१ वरपः क्षुरपो(?)ऽवश्यं दन्तौष्ठ्यत्वमुदाहृतम् । उदश्वित् किंचिदाहोश्वित् विपादिप्रत्ययेष्वपि ॥१७१।। ३२ दन्त्योष्ठ्यो वौ गुणे वृद्धा-वुपमाने वतिस्तथा । उपसर्ग विशब्दो (?) दन्त्यौष्ठ्यः समुदाहृतः ॥१७२॥ ३३ उववादिविधानाश्च संप्रसारणतोऽपि च । । इत्येवमादयः शब्दा वभेदेऽत्र विनिश्चिताः ॥१७३।। ३४ ओष्ठ्य-दन्त्यौष्ठ्ययोरत्र धात्वर्थादिविशेषतः । Page #17 -------------------------------------------------------------------------- ________________ 28 यदि स्यादनयोः क्वापि क (का) दाचित्को व्यतिक्रमः || १७४ ||३५ इति ओष्ठ्य- दन्त्यौष्ठ्यवकार निर्देश: ॥ अथ तालव्य - मूर्धन्य - दन्त्यानामपि लेशतः । शषसानां विशेषेण निर्देशः क्रियतेऽधुना ||१७५|| ३६ अथोष्मनिर्देश: श्यामाक शाक शुक शीकर शोक शूक शालूक शंकु शक शंकर शुक्र शकाः । शोडीर शाट शकटाः शिपिविष्ट शिष्टाः शाखोट शाटक शटी शटितं शलाटम् ॥ १७६ ॥ ३७ शीतं च शात शित शातन शुम्ब शम्बा शम्बूक शम्बर शुनार शवाः शिलीधृः । शोफे : शुभं शरभ शारभ शुम्भ शम्भु वाणि शुभ्रशरदौ शकुनिः शकुन्तिः || १७७।। ३८ शाला शिला शिवल शाद्वल शालु शेलु शार्दूल शूल शबलाः शमलः शृगालः । शेफालिका शिथिल शृंखल शील शैल - शेवाल शल्य शल शम्बल शैवलानि ॥ १७८॥ ३९ — शालालु शालु शलि शाल्मलि शुल्क शल्क शुल्कानि शल्य शलभौ शललं शलाका । श्रेणिः शणः श्रवण शोणित शोण शाण श्रेणी श्रुत श्रमण शून्य शरण्य शंकाः ॥ १७९ ॥ ४० शोचिः शची शुचिशय: शरु शर्म जी (शी ? ) र्णं श्रीपर्ण शोथ शपथ श्लाथ शंड शंढा: 1 श्रेयः शमः शमन शोधन शिक्य शाक्य शांडिल्य शाल्वल शमी शुनक श्रविप्राः ॥१८०॥ ४१ Page #18 -------------------------------------------------------------------------- ________________ 29 शाखा शिखा शिखर शेखर शंख शाप शंपा शिफा शफर शेफशयुः शिखंडः । शृङ्गार शृङ्ग शब शाव शरारि शारि शाराः शराव शबरच शिरः शिराश्च ॥ १८१॥ ४२ 1 शरीर शालीर शगेरु शेलु शोभाञ्जनः श्रावण शाद शुद्राः । श्येनः शनैः श्लीपद शिग्रु शीधु - शुद्धान्त शांसी: ( ? ) शितिशूर्पशौण्डाः ॥ १८२ ॥ ४३ शण्ठः शुण्ठी शतः श्रेष्ठचिश्चित्र ( श्रेष्ठश्चित्र) श्रोत्राणि शर्करा । शर्करी शर्वरी शक्ति- शुक्ति शुल्कानि शष्कली ॥१८३॥ ४४ श्रातं श्वेतं शिवि श्याव शत्रु श्वयथु शाकिनी । शिशुः श्लोकश्च शुल्वं च शालीनं च शिलीमुखम् ॥ १८४ ॥ ४५ श्लक्ष्णं श्लाधा च शीर्णं च शिक्यं श्रद्धा च शिजया । श्योनाकः शूरणः श्राणा शिक्षा श्यामा च सेवधिः || १८५ || ४६ आदितालव्याः || उशीर काश्मीरक किंशुकांशुकं किशोर किशारु कशेरु कौशिकम् । जलाशयाऽशोक कृशानु कश्यपाः यशः पिशङ्गाऽश्म पिशाच रश्मयः || १८६ ॥ ४७ निशान्त वेशन्त विशाल पेशलं बिलेशयाऽश्वत्थ निशीथ विंशतिः । विशंटकश्चानुशया शयाश्रयाः सहोपशल्या शनिवासिताश्विनौ (?) ॥ १८७॥ ४८ निशितं पिशितं प्रश्नः पिशुनो दशनोऽपि च । उशना लशुनं वेश्म कश्मलं विश्वमश्ववत् ॥१८८॥ ४९ Page #19 -------------------------------------------------------------------------- ________________ 30 दृश्यावश्यायविशिखं विशाखा विशिखा शिखः । विशदः पाशकः पाश्र्वं विश्रामश्चेश्वरोऽशनिः ॥१८९॥ ५० मध्यतालव्याः ॥ ईश प्रकाश कुश केश विकाश काशा - माकाश कीकश पिशाऽनिश पाशि पेशिः । पिङ्गाश तादृश दृशः सदृशो विनाश - कीनाश कर्कश दिशो दश देशदाशाः ॥१९०।। ५१ क्रोशाशु लोमश पलाश निवेश लेश - क्लेश प्रवेश परिवेश वसंधवेशः (?) । पशुः पशुः परशुरंशुरुपांशु पांशु -- निस्त्रिंश दंश विवशा मश वंश तंशाः ॥१९१।। ५२ बालिशः कुलिशो राशिर्वराशिर्बडिशो भृशम् । अपभ्रंशः पुरोडाशो विमिश्रोऽश्रिरनेकशः ॥१९२॥ ५३ दर्शः स्पर्शः स्पशोऽमर्शः कर्णो वाशा निशा कशा आशादर्शोर्वशी काशी तिनिशेशानिः कशाः ॥१९३॥ ५४ अन्ततालव्याः शौरिर्मुरारौ शिव एव शर्वः शूरः समर्थे झष एव शालः । शमः प्रशान्तौ शकलं च खण्डे शकृत् पुरीषेऽजगरे च शीरः॥१९४॥ ५५ मूर्धन्यश्रेष्ठयोर्वेश्या करिण्यां च वशा श्रुणिः ।। अश्नं वेदे च कर्णे च श्रुतिर्दास(श)श्च धीवरे ॥१९५।। ५६ व्यवस्थातालव्याः ।। शिंशपा शाश्वतं श्वश्रूः श्वशुरः शिशिरः शिशुः । शिश्र श्मश्रु श्मशानानि शशी शश्वत् कुशेशयम् ।।१९६।। ५७ शुक(का?)शि विश्वकाशीशस्तथा शीतशिवोऽपि च । तालव्य शद्वययुताः कियन्तोऽमी प्रदर्शिताः ||१९७।। ५८ उभयतालव्याः ॥ Page #20 -------------------------------------------------------------------------- ________________ आश्वास: शासनं शास्त्रं शस्त्रं शस्ता शरासनम् । तालव्यानन्तरं दन्त्यैः शब्दाः केचिदुदीरिताः ॥१९८।। ५९ तालव्यशकारनिर्देशः ॥ षडालिका पाण्डव भूषणोषणं पाषाण रोषाण विषाण भीषणम् । पाषंड कुष्मांड निषेक मूषिकं गवेषितं निःषम दुःषषिकम् ॥१९९।। ६० पुष्पाभिषेकौ विषयोषिदीषद् दृषत्तुषाराट् विषवनिषेधाः । दुषेध भैषज्य कषाय घोषणं हषीकमीर्ष्या च विषाद वर्षणे ॥२००॥ ६१ ऐषमो वर्म भीष्मोष्म-निषादाषाढगोष्पदम् । अभिषङ्गोऽनुषङ्गश्च दुःखं वा षिको द्विषत् ।।२०१।। ६२ दूषिका चषक: प्रेष्यो भाष्यं च धिषणैषणे । प्रषतः परिषत् पर्षत् तुषारोषरमर्षणम् ॥२०२।। ६३ वास्तोष्पतिदिविषदौ दुःपीडं च बहिःकृतम् । निष्कुटं किष्कु मस्तिष्कं तुष्वरं दु(दुः)करेषरौ ॥२०३।। ६४ तुरुष्क मुष्क विष्कम्भ-निष्क निष्कल पुष्कलम् । वस्तिष्कं वष्कयिण्यां च लोष्टेष्टपुष्टविष्कणम् ॥२०४।। ६५ इति मध्यमूर्धन्याः ।। पेयूष यूष पीयूष-गण्डूष पूष विपुषः । वातरुषो वरुषश्च खलूषारूषपूरुषाः ॥२०५।। ६६ हनूषः कल्मषः पूषोऽभ्यूषश्रुषो मनीषया । हेपा हेपा जिगीषा च स्नुषा निमिषया सह ॥२०६॥ ६७ Page #21 -------------------------------------------------------------------------- ________________ 32 रोचिषो महिषोन्मेष - प्रमेषामिषमारिषम् । कल्माषोष्णीष कुल्माष- माष मेष मिषं मृषा ॥२०७॥ ६८ किल्बिषं कलुषं चाष - स्ताविष तविषौ विषम् । तविषी त्रपुषी रोष - स्तृषा तोष तृषत् त्विषः ॥२०८॥ ६९ अभिषेको भषोऽभ्रेष- पुरुषा व्यतिषेषवः । मंजूषा निकष द्वेष - दोष: कोषः कष: कृषिः ॥ २०९ ॥ ७० उषावुषा वृषा व्याष- व्योषास्तर्षक कर्षयः । हर्षो वर्षश्च संहर्षः कर्षः कर्षः प्लुष प्लूषः ॥ २१० ॥ ७१ अम्बरीषं करीषं च तरीषं च पुरीषवत् । निपेषोऽलम्बुषः पौषो योषा श्लेषपलंकषा ॥२११॥ ७२ अन्तमूर्धन्याः || शीर्षं शिरीषं शुषिरं श्लेषः श्लेष्मा च शेमुषी । विशेष: शोषणं शष्प - शिष्य शैलूष शौष्कलाः ॥२१२॥ ७३ तालव्यमूर्धन्याः || तालव्यशादयः प्रोक्ता कथ्यन्ते दन्त्यसादयः । सुषुप्तिः सुषमा सर्पिः स्वल्पं चापि सुषुप्तकः ॥ २१३|| ७४ सुषीमं च सुषेणश्च सुषन्धिः सर्षपोऽपि च । दन्तमूर्धन्याः ॥ तालव्यान्ताश्च धूष्माश- गीष्पाश नृपदेशकाः ॥ २१४॥ ७५ तालव्यान्तमूर्धन्याः । मूर्धन्यनिर्देश: ( ? ) ॥ सद्यः सुधा सलिल सुन्दर सिन्दुवार सिन्दूर सान्द्र सिकता सित सेतु सूताः । सालूर सूर सरक स्वर सौरि सरि स्मेर स्मरा: समर सार समीर सुराः ॥ २१५ ॥ ५६ Page #22 -------------------------------------------------------------------------- ________________ सौवीर सागर सरित् सुत सारमेयाः संवित् समित् सकल सिल्हक सौविदल्लाः । स्वादः सदा सपदि सूद सूदः सरंडाः स्वेदः स्वरः सवन सीवन सत्र सूत्रम् ॥२१६।। ७७ स्वामी सम: समय सामज सामधेनी सोमाः समूह समवाय समुद्र सासि (मि?)। सीमन्त सीम सिम सून समान सलाः सूक्ष्मं समूट सरट स्वन सानु सूनुः ।।२१७|| ७८ स्यालः श्र(शृ/सृ?)णिः सरणि सारथि सिक्थ सिक्थि(?) सार्था सहाचर समाज समीक सूर्याः । स्वैरं सरः सचिव सूचन सूचि सव्य - सेव्यानि सद्म सदन स्यद सूप सु(सू)र्याः ॥२१८।। ७९ सायं स्मितं सायक सक्थु सेतु - सिन्धुः त्सरु स्तुक् सहदेव सर्गाः । सेक-स्रजौ सेवक सेव सन्तः सत्त्वं च सातिश्च सखा सुखं च ॥२१९॥ ८० सनातन स्यन्दन साधनानि संकार सौरेयक सर्ज सर्पिः । ससावरो सूनृत संकुलौ च सर्वे च साक्षी सविता च सृचि ॥२२०॥ ८१ सैरन्ध्री च सिनीवाली सारङ्ग स्वप्न सांप्रतम् । स्नायुः स्नेहः स्नुही सद्यः सरघा सौरभं सभा ॥२२१।। ८२ आदिदन्त्याः वासा(स)रासारकासार कासारप्रसरासुराः । वेसवार: परिसगे मसर; कुसुमानसम् ॥२२२।। ८३ ॥ Page #23 -------------------------------------------------------------------------- ________________ 34 प्रासादापसदासन्दी व्यासङ्ग स्तव दस्यवः । प्रसूनं प्रसवो लास्य -मास्यं प्रसभ रासभौ ॥२२३॥ ८४ अवसाय: किसलय: कुसूलं च विकस्वरम् । मसृणं प्रासना वासी भस्माकस्मिकघस्मराः ॥२२४॥ ८५ अमावास्याः प्रतिसरः प्रसारो विसरोऽपि च । वसन्तश्च तुसारच मसारश्च रसाञ्जनम् ॥२२५॥ ८६ वसुधा व्यवसायास्त्र - वसन व्यसनानि च । तमिस्रं चास्रघस्त्रोत्राजस्रविस्रभवासिताः ॥ २२६ ॥ ८७ कैलास लालस किलास विलास लास कर्पास हास कृकलास निवास नासाः । न्यासांसमांस मसि कीकस कंस हंस ध्वंस प्रकुंस पनसा सुधसु प्रवासाः ॥ २२७॥ ८८ निर्यास प्रास वीतंसो - त्तंसालस मलीमसाः । वासा विसं तामरसं वासश्चमसबुक्कसौ ॥२२८॥ ८९ व्यासावभासदिवस - रस सारस वायसाः । वाहस: पट्टिसोच्छ्वास- मासासि मिसि बुक्कसाः ॥ २२९ ॥ ९० अन्त्यदन्त्याः ॥ मृत्सा चिकित्साप्सरसो बुभुत्सु श्चिकिस्तितं मत्सर मत्सरं च । वात्सायनोत्सारण मत्स्य दित्सु - गुत्सोत्सवोत्साह विधित्सुकुत्साः ॥ २३०॥ ९१ मध्यदन्त्याः || कृत्स्नं च लिप्सुरुत्सृष्ट-मुत्सानिर्भर्त्सनोत्सवाः । बीभत्साधीप्सता भीत्सु समुच्छे (त्से) कोत्से ( त्सु ? ) का अपि ||२३१|| ९२ संयुक्तदन्त्याः ॥ Page #24 -------------------------------------------------------------------------- ________________ 26 संसार सारस सरीसप सस्य सास्ता(स्ना?) सारस्वतानि सरसीधजमंजसं (?) च / स्वस्त्रा च साहस सहस्र सहः समास - सामस्त्य संसरण सासकसंसनानि // 232 / / 93 सस्यक: साध्वसं संक-स्तुकः सारसनं तथा / अमी दन्त्यद्वयोपेता उष्मभेदेऽत्र दर्शिताः // 233 / / 94 अथ प्रशस्तिः // श्रीसाहसाङ्कचरितप्रमुखास्तु गद्य पद्यप्रबन्धरचनास्त वितन्वतैव / व्युत्पत्तिमुत्कलतमां परमां च शक्ति उल्लासिता जगति येन सरस्वतीयम् // 234 / / 95 नि:शेषवैद्यकमताम्बुधिपारदृश्वा शब्दागमाम्बुरुहखण्डरविः कवीन्द्रः / यत्नान्महेश्वरकविर्निरमात् प्रकाममालोक्यतां सुकृतिनस्तदसावनार्थः (?) // 235 / / 96 नामपारायणोणादि - निरुक्तोक्तैर्विकल्पितः / शब्दैवर्णविधिश्चान्तैः संदृब्धोऽप्येष साधुभिः // 236 / / 97 कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम् / संशयं च निराकर्तु - मयमस्मत्परिश्रमः // 237 // 98 इति श्रीसंशयगरलजाङ्गली नाम्नी नाममाला समाप्ता / वृद्धतपागच्छे श्रीपं. विनितसागरशिष्यजिनेन्द्रसागरेण लिपीकृतोऽयं ग्रन्थः संवत 1799 वर्षे फाल्गुनमासे वलक्षपक्षे द्वितीयायां स्थंभतीर्थे विद्यागुरोः केसरवर्द्धनस्य सानिध्यात् //