SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ कुमुदं च कुमुच्चापि योषिता योषिदित्यपि । शरद् भवेत शरदया प्रावृट् प्रावृषया सह ॥४६।। नभं तु नभसा साकं तपं तु तपसा समम् । सहं च सहसा सार्द्धं महं च महसा धुतौ ॥४७॥ तमसेन तमः प्रोक्तं रजेनापि रजः समम् । शाब्दिकैस्तु जलौकाभिः कथितोऽयं जलौकसः ॥४८॥ दिवं प्रोक्तं दिवातुल्यं पर्षत् परिषदा सह । वर्षाः स्युर्वरिषाभिश्च हर्षोऽपि हरिषेण च ॥४९॥ सर्षपः सरिषपश्च कर्षः स्यात् करिषेण च । माषो मारिष इत्युक्तः स्पर्शोऽपि स्परिशो यथा ॥५०॥ एवमन्येऽपि बर्हादा-वूष्मवर्णाः प्रयोगतः । मूद्धरेफा विकल्प्यन्ते छन्दोभङ्गभयादिना ||५१।। दक्षिणास्यामपाच्येव प्रायं त्वनशने विदुः । छन्दावभिप्रायवशौ कलज्ञः स्यात् कलाविदि ।।५२।। समूहार्थस्य जातस्य चवगादिच्छ(चवर्गादित्व ? ) मीरितम् । अन्तस्थीययकारत्वं यवसस्य तु कथ्यते ॥५३॥ तन्तुवायस्य वाग्रेऽपि तन्त्रादित्वं च दृश्यते । तुर्यस्वरादिरीर्वारुः कर्कट्यां पठ्यते बुधैः ।।५४|| हस्वादिरर्तिः पीडायां धनुः कोट्यामपीष्यते । एतौ मध्यतवर्गीयौ वैदूर्यमणि-शाबलौ ॥५५॥ तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः । चुल्यामुत्पूर्वकं ध्मानं धानं हानं च वर्तते ॥५६।। तालव्यमध्यो विशद उर्ध्वशब्दो वकारवान् । यवानी स्याद् वमध्यैत्र श्रावणो मासि मध्यवः ।।५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229404
Book TitleMaheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size435 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy