SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ भवेदमात्येऽप्यामात्यः पीनसे स्यादपि(पी)नसः । अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम् ॥८२॥ यूषश्च यभनं यातु यकारद्धयवन्मतम् । पुरुणा च परुग्रन्थौ काश्मीरी कश्मिरीति च ॥८३।। मातुलिङ्गे मातुलुङ्गः कदल्यां कदलोऽपि च । परुषकफले प्रोक्तं परुषं फरुषं यथा ॥८४॥ नारङ्गे नागरङ्गोऽपि स्याद्विसेऽपि विसंडकम् । वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते ॥८५।। किसलं स्यात् किसलयं गुच्छे गुच्छो गुलञ्छ्वत् । आम्रातकं स्यादम्लात-ममिलातकमित्यपि ॥८६॥ जम्बीरेऽपि च जम्भीरो जूर्णायां जूर्णी(णि ?) रित्यपि । तित्तिरौ तित्तरोऽपि स्यात् पीलकः स्यात् पिपीलके ।।८७।। गोदा गोदावरी नद्यां मथुरा मधुरा पुरि । कवियं कविकायां च स्याद् गवेधौ १ गवेधुका ।।८८॥ मञ्जुषायों च पिटकः पेटा पेटक इत्यपि । पादातौ च पदातिश्च पादातिश्च पदातिकः ॥८९॥ पादत्राणे तु पन्नधी, भवेत् प्राणहिताऽपि च । जलावुका जलौकायां गैरिके च गवेरुकम् ॥९०।। नासिकायां च नकं स्याद् वक्रे वंकोऽप्युदाहृतः । सरणी च प्रसारण्यां मुष्के स्यात् फलकं फलम् ।।९१।। भवेद् दाढाऽपि दंष्ट्रायां शाल्मल्यां शाल्मलीति च । वध्वां च वधूकाऽपि स्या-दञ्जन्यामञ्जनाऽपि च ॥९२।। १... धान्य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229404
Book TitleMaheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size435 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy