________________
155
तविशं तविषं चापि मुशलो मुषलोऽपि च । वेशो वेषश्च कथितः स्याद् 'बुशोऽपि बुषोऽपि च ॥२४॥ स्यात्तनुस्तनू(नु)षा सार्द्ध धनुना च धनुर्विदुः । शूकरः सूकरोऽपि स्यात् शृगालश्च संगालवत् ॥२५॥ शूरः सूरश्च तरणौ कलश: कलसोऽपि च । शूनासीस: सुनासीरो नारायण-नरायणौ ॥२६।। जाम्बवान् जाम्बवोऽपि स्या-लक्ष्मणो लक्षणोऽपि च । संस्तरः स्रस्तरोऽपि स्यात् चरित्रं चरितं तथा ॥२७॥ पारतं पारदं वास्त्रो वासरः कृमिवत् क्रमिः । तृफला त्रिफला चापि तृणता त्रिणताऽपि च ।। २८॥ भवेद् ऋष्टिस्तथा रिष्टिः प्रियाल: स्यात् प्रयालवत् । कणाटीनः कटाटीनो वातको वातगोऽपि च ॥२९।। मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च । मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥३०॥ मत्कुर्ति मुत्कुति(?) चापि चलुकं चुलुकं यथा । करंज: करजोऽपि स्यात् परेतः प्रेतवन्मतः ॥३१॥ किर्मीरोऽपि च कर्मीरो २ डयनं हयनं समम् । शौण्डि(ण्डी)र्यमपि शौण्डीरं ज्येष्टे ज्येष्टोऽपि दृश्यते (?) ॥३२॥ शुक्के (क्ले ?)ऽप्यवानं वानं (?) स्यादुदके स्याद्दकं दगम् । कुष्टभेदे शतरुषा शतारुश्च निगद्यते ॥३३॥ द्रेक द्रेष्काण द्रष्काणा भवन्त्यपि २ हकाणवत् । पत्रङ्गमपि पत्राङ्गे कुद्दालच कुदालवत् ॥३४॥
१. कडंगरनाम || २. विमाननाम ।। ३. गोषरूं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org