Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ तवर्गपञ्चमोपान्त-मङ्गनं केवलं पुनः । हाहाशब्दस्तु सान्तोऽपि, कथितो दिव्यगायनः ।।१०५।। चतुःशाले चवर्गीय-मध्यं संजवनं विदुः ।। पवर्गमध्यः सान्तश्च रेफ: स्यादधमार्थकः ॥१०६।। अन्तस्थमध्यं वैयात्यं वेन्मि(मि ?) वेमश्च वेम च । कमने कामनोऽपि स्याद् दीर्घादिः कूकुदः स्मृतः ॥१०७।। प्रभायामपि भाः शब्दः सान्त पुल्लिङ्ग एव च । एक(ड?) मूकेऽडनेमूक: सूर्यां सूर्मिरपि स्मृता ।।१०८।। एडूकं हुस्वमध्यं च ह्रस्वान्ता च पदव्यपि । शैवाले स्याच्च शेवालं शेवलं शैवलं तथा ॥१०९|| तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च । चित्रे च चित्रलोऽपि स्या-च्चितायां चित्तियाऽपि च ॥११०॥ छन्दसि स्यादनड्वाही भाषायामनडुह्यपि । . मध्येकारोऽपि चिपिटो हुस्वादिश्चारणोऽप्यवौ ॥१११॥ उत्तमायां गवि प्राहु-रैकारादि च नैचिकीम् । साच्यर्थे साचिरप्युक्ता भूतार्थे च तथस्तथा ॥११२।। चवर्गादिरपि प्रोक्ता यामिः स्वसृकुलस्त्रियोः । वातासहो वातसहो वातूले स्यादिदं द्वयम् ॥११३।। अप्सर: स्वप्सरा प्रोक्ता सुमनाः सुमनःसु च । बर्बरी बर्बरा शाके विवुत्तं हल्चतुष्टयम् (?) ॥११४॥ तन्द्री तन्द्रिश्च तन्द्रायां कुरङ्गे च कुरङ्गमः । प्रथगच्छश्च? भल्लश्च भालूकेऽप्यच्छभल्लवत् ।।११५॥ जलायुके जलोकं च जलौकं च जलूकवत् । घोघके (?) सांबुकं क्वापि बुध्ने ब्रघ्नश्च दृश्यते ।।११६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24