Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
आश्वास: शासनं शास्त्रं शस्त्रं शस्ता शरासनम् । तालव्यानन्तरं दन्त्यैः शब्दाः केचिदुदीरिताः ॥१९८।। ५९
तालव्यशकारनिर्देशः ॥ षडालिका पाण्डव भूषणोषणं पाषाण रोषाण विषाण भीषणम् । पाषंड कुष्मांड निषेक मूषिकं गवेषितं निःषम दुःषषिकम् ॥१९९।। ६० पुष्पाभिषेकौ विषयोषिदीषद् दृषत्तुषाराट् विषवनिषेधाः । दुषेध भैषज्य कषाय घोषणं हषीकमीर्ष्या च विषाद वर्षणे ॥२००॥ ६१ ऐषमो वर्म भीष्मोष्म-निषादाषाढगोष्पदम् । अभिषङ्गोऽनुषङ्गश्च दुःखं वा षिको द्विषत् ।।२०१।। ६२ दूषिका चषक: प्रेष्यो भाष्यं च धिषणैषणे । प्रषतः परिषत् पर्षत् तुषारोषरमर्षणम् ॥२०२।। ६३ वास्तोष्पतिदिविषदौ दुःपीडं च बहिःकृतम् । निष्कुटं किष्कु मस्तिष्कं तुष्वरं दु(दुः)करेषरौ ॥२०३।। ६४ तुरुष्क मुष्क विष्कम्भ-निष्क निष्कल पुष्कलम् । वस्तिष्कं वष्कयिण्यां च लोष्टेष्टपुष्टविष्कणम् ॥२०४।। ६५
इति मध्यमूर्धन्याः ।। पेयूष यूष पीयूष-गण्डूष पूष विपुषः । वातरुषो वरुषश्च खलूषारूषपूरुषाः ॥२०५।। ६६ हनूषः कल्मषः पूषोऽभ्यूषश्रुषो मनीषया । हेपा हेपा जिगीषा च स्नुषा निमिषया सह ॥२०६॥ ६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24