Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ भवेदमात्येऽप्यामात्यः पीनसे स्यादपि(पी)नसः । अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम् ॥८२॥ यूषश्च यभनं यातु यकारद्धयवन्मतम् । पुरुणा च परुग्रन्थौ काश्मीरी कश्मिरीति च ॥८३।। मातुलिङ्गे मातुलुङ्गः कदल्यां कदलोऽपि च । परुषकफले प्रोक्तं परुषं फरुषं यथा ॥८४॥ नारङ्गे नागरङ्गोऽपि स्याद्विसेऽपि विसंडकम् । वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते ॥८५।। किसलं स्यात् किसलयं गुच्छे गुच्छो गुलञ्छ्वत् । आम्रातकं स्यादम्लात-ममिलातकमित्यपि ॥८६॥ जम्बीरेऽपि च जम्भीरो जूर्णायां जूर्णी(णि ?) रित्यपि । तित्तिरौ तित्तरोऽपि स्यात् पीलकः स्यात् पिपीलके ।।८७।। गोदा गोदावरी नद्यां मथुरा मधुरा पुरि । कवियं कविकायां च स्याद् गवेधौ १ गवेधुका ।।८८॥ मञ्जुषायों च पिटकः पेटा पेटक इत्यपि । पादातौ च पदातिश्च पादातिश्च पदातिकः ॥८९॥ पादत्राणे तु पन्नधी, भवेत् प्राणहिताऽपि च । जलावुका जलौकायां गैरिके च गवेरुकम् ॥९०।। नासिकायां च नकं स्याद् वक्रे वंकोऽप्युदाहृतः । सरणी च प्रसारण्यां मुष्के स्यात् फलकं फलम् ।।९१।। भवेद् दाढाऽपि दंष्ट्रायां शाल्मल्यां शाल्मलीति च । वध्वां च वधूकाऽपि स्या-दञ्जन्यामञ्जनाऽपि च ॥९२।। १... धान्य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24