Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ लङ्गलमपि लाङ्गलं भंभरा भंभराल्यपि । त्वचि त्वचः किरोऽपि स्यात् किरौ प्रोक्तः पथः पथि ॥११७॥ अजगावाजकावेव भवेदाजगवं तथा । पिनाकेऽजगवं चाथ सैहिकेये तमस्तथा ॥११८॥ चुलुकी चुलुपी च स्या-दुलूपी शिशुमारके । अगाधेऽस्थागमस्थाघ-मस्तघं च प्रयुज्यते ॥११९।। स्यान्मध्योभचतुर्थत्व(?)-महसो रहसस्तथा । चिह्न ललामशब्दोऽपि स्याददन्तश्च पुंसि च ॥१२०॥ द्रविडः स्यान्ममध्योऽपि काफलं चापि कत्फले। व्रीडायां च भवेद् व्रीडो लज्जामात्रेऽप्यपत्रपा ।।१२१।। उडुकं मध्यहस्वं च हुस्वादिः स्यादलिन्दकः । तथा कुरबके रेफो निरुकारः प्रयुज्यते ॥१२२॥ मंजिष्ठायां तु भण्डीरी मध्यह्रस्वाऽपि पठ्यते । दीर्घादि वृश्चिके च स्या-दली स्यादालिरित्यपि ॥१२३।। वु(वृ)को वृक्का स्मृतौ वृल्कि ग्रैवं ग्रैवेयकेऽपि च । ख) खोडश्च खोस्च स्यात्तरा तरिरित्यपि ॥१२४|| नासिकायां च नस् वापि मथि मन्थाक इत्यपि । कार्तस्वरं मध्यदन्त्यं सेहुड: स्यात् सिहुण्डवत् ।।१२५।। उष्ट्रोऽदन्त्यो लुलायोऽपि मारुतेऽपि हलं तथा । विद्यात् पुरुरवःशब्दे रुंकारस्यापि दीर्घता ॥१२६॥ स्यात् कुरण्डोऽपि दीर्धादिः सुरज्येष्ठोऽपि सम्मतः । नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान् ॥१२७।। काण्डे शर: शुभं क्षेमे शार: शबलवातयोः । किशुकश्च शुकश्चापि स्मृता(तौ) तालव्यदन्त्ययोः ।।१२८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24