Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ हस्वान्ता स्यादलाबुश्च दीर्घादिश्च प्रतीयते । उर्णनाभ इदन्तश्च किकीदिविः किकीदिवे ||९३।। करेटो(टौ ?) करटुश्चापि दूत्यां दूतिरपि स्मृता । स्यानिचोले निचुलकं स्यादसिक्तामसिक्तिका ॥१४॥ जीव(वं)जीवे जीवजीव-श्चालन्यामपि चालनम् । स्यूते स्यूनं तथा स्योन-मभ्युषेऽभ्योष इत्यपि ॥९५॥ करम्बो मिश्रिते बातो (?) भांतस्तु दधिसक्तुषु । आमीक्षा हुस्वमध्याऽपि मध्यौकारं च यौतकम् ।।९६॥ धुवित्रं निरुकारं च स्याद् ऋषौ रिषि इत्यपि । इरिणं स्याच्च दीर्घादिः कृषके कृषिकोऽपि च ॥९७|| तालव्यदन्त्ययोरुक्ते सर्वला सर्वलीति च। तालव्यद्वयमध्योऽसा-वाशुशुक्षणिरीक्ष(क्ष्य)ते ।।९८॥ विष्णौ दाशार्ह इत्यस्य मध्यतालव्यता मता । तालव्यान्तश्च कोटीशः प्रासस्तालव्य-दन्त्यायोः ।।९९॥ दन्त्योपान्तं तु कूर्पास-महानसमलीमसम् । कांजिकादौ तु कुल्माषो दन्त्योपान्त्योऽपि कीर्त्यते ॥१००|| आदिदन्त्यं तु सुषवी सम्बाकृतसमूरुचः । कुसीदं च कुसूलं च मध्यदन्त्यमुदीरितम् ॥१०१।। पारावार: प्रंमध्योऽपि सोपानं दतु समादितु (दन्त्यमादि ?) । विश्वस्ता स्याद् वमध्यैव न विशस्तेत्युदाहृता ।।१०२।। स्यात् कवर्गद्वितीयादि ख्वंतादिरपि क्षुल्लकः । स्यात् पवर्गद्वितीयादि फणायां तु फटाऽपि च ॥१०३॥ त्रयोदशस्वराास्तु शोभाञ्जन उदाहृतः । तनूनपात् तकारान्तो न तवर्गतृतीय भाक् ।।१०४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24