Book Title: Maheshwar Kavi Virachita Sanshayagaral Janguli Nammala Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ 19 काकाचिके काकचिके भवेद् ऋश्यस्तु रिश्यवत् । वातूलो वातुलोऽपि स्यात् कैकेयी केकयीत्यपि ॥७०॥ विरञ्चिश्च विरिञ्चोऽपि ब्रह्मण्यपि विरञ्चनः । वरुटो वरुडोऽपि स्याद् विक्कपिकौ गजार्भके ॥७१॥ कर्करेट करेटुश्च कुर्कुरः कुक्करोऽपि च । अम्बरीषश्चाम्बरिष-मुत्पले कुवलं कुवम् ॥७२॥ कुमारिले कुमारि मन्थिर्मन्थो मथोऽपि च । वज्रा वज्री स्नुही भाग्यो-र्वस्ट्यां वरटाऽपि च ॥७३॥ कैटभा कैटभीश्चर्यो (?) कन्दर्यां कन्दराऽपि च । भिदिर्भेदश्च कुलिशे वातिर्वाते कूठे कुठिः ॥७४॥ करे करिर्जटायां तु जटिः शिल्यां शिलापि च । पुलिन्दे स्यात् पू (पु) लीन्द्रोऽपि निषादिश्च निषादिनि ॥ ७५ ॥ यतिश्च यतिनि प्रोक्तः सृक्विणी सृक्वसृक्वि च । वहितं च वहित्रं तु निचुले हिज्जलेज्जलौ ॥७६॥ विखविख्रस्तथा विग्रे नासाया विगमादिति । अमतिश्चामतिः काले रजन्यां च तमा तमी ॥७७॥ विश्वप्सश्चापि विश्वप्सा सिध्मः सिध्म च कथ्यते । स्याद् वृक्का वृक्कया सार्द्धं धर्मे धर्म च कीर्तितम् ॥७८॥ उष्मया सार्द्धमुष्मापि मज्जोक्ता मज्जया सह । शेफशेफौ च शेवश्च शेषं प्रोक्तं च शेफसा ॥७९॥ प्रापुन्नाटकमित्याहुः प्रपुन्नाटप्रपुन्नटम् । अररश्चारस्श्चिापि कवाटे स्यात्कूवाटवत् ॥८०॥ भल्लो भलिच बाणे स्याद् दले पात्रं च पत्रवत् । इर्ममीम णेऽपि स्यात् निर्झरे तु झरो झरा ॥८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24