Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 7
________________ कालानुभावमनुसृत्य मुनीश्वरस्य । धैर्य परीषहचमूसहने महिष्ठं संबिभ्रतः परमसत्त्वगुणालयस्य ॥ १६ ॥ गाम्भीर्यमद्भुतमुपेतवतः समस्त कर्मक्षयात्मशिवसम्पदज्वेप्सयैव । सम्यक् क्रियां विदधतो गुरुवाक्य आस्ते धर्मश्वकासदिति धारयतश्च चित्ते ॥ १७ ॥ खच्छप्रसादकिरणाततहर्षवर्षों वक्वेन्दुरक्षिपदवीविनिपातमात्रात् । पापं क्षिणोति चिनुते च शरीरभाजां श्रेयः पिपर्त्यभिमतं च किमत्र वाच्यम् ? ॥१८॥ (त्रिभिर्विशेषकम् ) किं ब्रूमहे बहु महोदयसम्पदास्पदे ऽस्मिन् ज्ञानदर्शनतपोविशदात्मशालिनि !। एकप्रसादगुणतः खलु विस्मयामहे दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ १९ ॥ क्रोधाग्मिदग्धमनसः प्रशमार्पणाकृते नास्य प्रमोदजलधेर्वचसः प्रयोजनम् । एकं प्रसादसुधया परिधौतमक्ष्यलं दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ २० । तस्य प्रसादविमलं नयनं विलोक्या रातिस्वभावपतितोऽपि भृशं तुतोष ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31