Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 12
________________ ( ९ ) वृत्तं तदास्यं मसृणं निसर्गतः शोचिःसमूहं प्रथयत् समन्ततः । दृष्ट्वा निशारत्नसहोदरं न कः स्वाऽङ्के न्यधित्सद् रमणाय तं मुदः ? ॥ ४६ ॥ जातेऽथ वर्षदशके कुमरस्य तस्यायुः पूरणे दिवमगाज्जनकस्ततोऽम्बा | की विधेर्विलसितं जगदङ्गिवर्गे क्रीडां यथेच्छमपनीतदयः करोति ? ॥ ४७ ॥ गत्वा ततो मातुलगेहरूपे तस्थौ स वर्षत्रितयं यथेष्टम् । ततः पुनर्माण्डलपत्तनेऽस्थाद् मातुःस्वसुः सद्मनि सप्रमोदम् ॥ ४८ ॥ पितुःस्वसुवाऽपि गृहेऽथ तत्र तिष्ठन् निराबाधमसावपाठीत् । को नाम रत्नं शुभवृद्धिहेतुं गृहे स्वकीये परिरक्षयेन ? ॥ ४९ ॥ अध्येतुमिच्छुस्तत आङ्ग्लभाषां जगाम धीमान् सवयस्सनाथः । साऽऽमोदचेताः सुरते पुरेऽसौ धीरा विधेये न किलाssसन्ति ॥ ५० ॥ ततः पुनः संस्कृतभारती स महामतिः संपरिचेतुमिच्छुः । २

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31