Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 26
________________ U ( २३ ) दृशा च संतोषसुधाकिरा गिरा ॥ १३३ ॥ अभीष्टकल्पद्रुमपादपङ्कजस्पर्शस्य चिन्तां नत ईक्षयैव च । मूर्तस्य वा पुण्यसमुच्चयस्य च प्रातः प्रणम्यस्य सदा कृताञ्जलि ॥ १३४ ॥ श्रीमन्महेन्द्रस्य महेश्वरस्य सान्निध्यतोऽमू श्रमणौ व्यधाताम् । असम्भवद्विनकथौ विहारे सम्यक् परीक्षादिकमिष्टकार्यम् ॥ १३५ ॥ अचिन्तितं न्यायविशारदेति सत्काररूपं समवापतां च । बङ्गज्ञवर्गात् कलिकातिकायां चिन्तामणौ सन्निहिते कथा का ? ॥ १३६ ॥ (चतुर्भिः कुलकम् ) मासत्रयं तत्र कृतस्थितिः सा मुनित्रयी श्रीगुरुदर्शनेच्छुः । ततो विहारं कृतवत्यमन्दं काशीपुरीमागमदेकमासम् ॥ १३७ ॥ श्रमापनोदाय च तत्र कश्चित् कालं त्रयस्ते श्रमणा अतिष्ठन् । ग्रीष्मर्तुतापाभिविवृद्धिभीत्या ततो व्यहार्दुस्त्वरया पुनस्ते ॥ १३८ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31