Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako
View full book text
________________
( ८ )
सम्यग्यशा इह च सांकलचन्द्रनामा
श्रद्धागुणाऽमलमना विकसद्विवेकः । तत्स्थैर्जनै गरशेठ इति प्रणीतो न्यायाऽनुपालनपरो वणिगेक आसीत् ॥ ४० ॥ आसीदमुष्य शुचिशीलगुणा झवेरीत्याख्याङ्गना व्रततपोनियमानुरक्ता । कालक्रमेण तनयः परिजायते स्म
कल्याणपात्रमनयोः सुकृतोदयेन ॥ ४१ ॥ खवर्गे मिलिते साधुदिवसे पितरावथ ।
सूनोनाम मफालाल इत्यस्थापयतां मुदा ॥४२॥ अथ क्रमाद् बालक एधमान
श्चक्षुर्युगानन्दकरो बभूव । पित्रोः परं नापरपश्यतोऽपि
नाऽऽनन्दयत्यम्बुधिमेव हीन्दुः ॥ ४३ ॥ नियुज्य भूमौ निजपाणियामलं
पृष्ठं मृगारातिरिवोन्नमय्य च । कुर्वन् क्रमाभ्यां गमनं शनैः शनैर्मुखाब्जिनीतः प्रथयन् स्मिताम्बुजम् ॥ ४४ ॥ असौ किमीयं मुदितं न बालको मनश्चकारेन्दुविकासिभूधनः। सुकोमलस्तस्य च पाणिपल्लवः संस्पृष्टमात्रो मुदमार्पिपत् पराम् ॥ ४५ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31