Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako
View full book text
________________
इतः पुनर्माण्डलंपत्तनात्त
न्मातुःस्वसुनन्दन आजगाम । गीर्वाणवाणीनिपुणीबुभूषुः
श्रीकाशिपुर्या नरसिंहनामा ॥ ७० ॥ सदा नृसिंहस्य सहायभावं
व्यधाद् महाबन्धुरसावधीतौ । परोपकारकपरोत्तमानां वाच्यं किमात्मीयलघिष्ठबन्धौ ? ॥ ७१ ॥ अथैकदाऽध्यातवति स्ववस्तुः
पत्रे ज्वराद्यामयबोधिवणे । श्रीधर्मसूरीन्द्रपदं प्रणम्य
ग्रामे खकीये गतवान् नृसिंहः ॥ ७२ ॥ मासत्रयाभ्यन्तर एव तस्य पितुश्च मातुश्च गतौ परत्र । हदारणं शोकमनल्पमायन् स्मरन् भवाम्भोनिधिभीमतां च ॥ ७३ ॥ आगादधीरः परिसोढुमेतद् दुःखं महिष्ठं सहसा नृसिंहः । काश्यां पुनस्तस्य शमाऽर्पणायाऽऽददे मफालाल इमां च वाचम् ॥ ७४ ॥ भ्रातः ! सदा सन्निहितोऽस्ति मृत्युः संसारवासे वसतां जनानाम् । .

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31