Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 21
________________ ( १८ ) काशीपुरीं मुनिवराः समुपागमन् पुन विद्याऽऽलयं पथमनेषत चोन्नतिश्रियः । श्रीमान् महेन्द्रविजयोऽपि कुशाग्रतुल्यधीविद्याविनोदमकरोद् गुरुभक्तिबन्धुरः ॥१०॥ श्रीसिद्धहेमाभिधशब्दशास्त्रप्रासादमारोहत आशु तस्मै । शश्लाघिरे विस्मयमाश्रयन्तः सर्वे सहाध्यायिजना नितान्तम् ॥ १०१ ॥ मुक्तावलीप्रभृतितर्कनिबन्धमादौ कृत्वा स्वबुद्धिविषयं सततश्रमेण । जैनेन्द्रतर्कमधिगन्तुमथो निसर्गगम्भीरमैहत स सम्मतितर्कमुख्यम् ॥ १०२ ॥ न्यायोऽप्यसौ मुनिशिशुः प्रतिपद्य तस्य साहायकं प्रतिदिनं श्रमतो यथाधि । व्युत्पत्तिलेशमधिलक्षणशास्त्रमाप जैने पुनस्तदितरत्र च तर्कशास्त्रे ॥ १०३ ॥ गुरोगिराथो कलिकातिकायां श्रीन्यायशास्त्रे ददितुं परीक्षाम् । श्रीमङ्गलः प्राज्ञमुनीश्वरश्च न्यायो मुनिश्च प्रकृतौ विहारम् ॥ १०४ ॥ ताभ्यां तदानीं विनिवेदितः सहागमे यथौचित्यसहायताकरः।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31