Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 20
________________ ( १७ ) मज्जेत् कथं भोगपुरीषपुञ्जे ? ॥ ९२ ॥ ततो नृसिंहोऽपि तमन्वगच्छत् पुरैव संसारविरक्तचेताः । स एव बन्धुः स पुनर्वयस्यः श्रेयः पथेनाऽनुसरेद् निजं यः ॥ ९३ ॥ एवं च ते पञ्च महानुभावाः सुशिक्षिताचारुविवेकभाजः । अभूतपूर्वेण महोत्सवेन तत्रत्यभक्ताढ्यविनिर्मितेन ॥ ९४ ॥ त्रिषष्ठ्यभ्यधिके चैकोनविंशतिशताब्दके । चैत्राऽधवलपञ्चम्यां दीक्षामाददिरे मुदा ॥ ९५ ॥ ( युग्मम् ) सिंहविजय - गुणविजयौ विद्याविजयो महेन्द्रविजयश्च । न्यायविजय इत्याख्याः पञ्चाऽऽसंस्ते मुनीशितुः शिष्याः ॥ ९६ ॥ महेन्द्रविजयेत्येवं मुनिनाम्ना प्रसिद्धवान् । महेच्छः श्रीमफालालो रेमेऽथ शमसम्पदि ॥ ९७ ॥ नरसिंहः पुनर्न्यायविजयेत्यभिधां गतः । महेन्द्रविजयाभ्यर्णेऽग्रहीद् वैराग्यशिक्षणम् ॥ ९८ ॥ अथ श्रीकलिकातायां कृत्वा मासचतुष्टयम् । ततो विहारं विदधुः सशिष्या धर्मसूरयः ॥ ९९ ॥ ३

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31