Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 6
________________ लोभस्य शौर्यमुदभूद् नहि तस्करस्य ॥ १० ॥ एकाशनव्रतमहो ! सततं वितन्वन् भुङ्क्ते स्म भोजनमसौ समयोपलब्धम् । स्वादिष्ठवस्तुनि मनागपि निर्मिमाणो गाय॑ कदाऽपि न पुनः परिदृश्यते स्म ॥११॥ नव्यं च वस्त्रमसको न कदाऽपि दधे ग्रन्थान् पुनः समुचितान् प्रशमानुकूलान् । एकोऽहमस्मि मम कोऽपि न नास्मि चाहं कस्याप्यदीनमनसेति सदापि दध्यौ ॥ १२ ॥ निष्टङ्कनेऽसति सति खकभारती न । प्रायः समादित जिनेन्द्रवचोऽनुरक्तः । संशीतिगोचरपदे तु महानुभावः संशीतिशब्दमपि सार्धमनूच्चचार ॥ १३ ॥ माधूर्यपूरितमबाधितमप्यतुच्छं संप्रोचुषोऽत्रभवतः श्रमणेश्वरस्य । क स्याद् मृषावचनदूषणसंप्रवेशः संभावना त्वददितग्रहणे कुतस्त्या ? ॥ १४ ॥ भिक्षार्थमार्हतमुखाम्बुजदर्शनार्थ नीहारकर्मकृतयेऽप्यथवा प्रयातः। मेधाविनः शमसुधारसमेदुरस्य क्वापि स्त्रियां न नयनं निपपात तस्य ॥१५॥ पञ्च व्रतान्यपि महान्यभिरक्षतः सत्

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31