Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako

View full book text
Previous | Next

Page 5
________________ क्लिष्टे तपश्चरणवमनि सञ्चरिष्णुः । एवंविधोऽप्युपहतो न कषायचौरैः स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ ५ ॥ क्रोधो हि योजनशतं किल दूरमासीत् तस्माच्छमैकसुहृदं परिषेवमाणात् । नो जातु नाम मनसा वचसाऽङ्गतश्चाऽवष्टम्भलेशमपि दर्शयिता बभूव ॥ ६ ॥ आक्रोशितोऽप्यतितरां कटुजल्पधारया कुर्याद् रुषं तु कथमेष मुनिर्महेश्वरः । किन्तु प्रभूतपरितोषसुधाभिपूरितै राक्रोशमानयत शान्तिपथे गवां गणैः ॥ ७ ॥ सत्यं समस्य पुरतः परिघोषयामः शत्रुखभावपतितेऽपि हि नम्रतोच्चैः। एकः क्षमाश्रमणतां क्षमितागुणोऽस्य श्रीलस्य तत्रभवतः प्रकटीचकार ॥ ८ ॥ दम्भस्य तु प्रणयने न कदाप्यमुष्य प्राप्तः प्रसङ्ग उपघातितसंयमस्य । खाध्यायमेव हि सदा विजने स्थलेऽसौ धीमान् समाद्रियत बाह्यविरक्तचेताः ॥ ९ ॥ संबिभ्रतोऽस्य शरणं परितोषराजो नित्यं विवेकसदलङकृतिमण्डितस्य । सम्यक्परिग्रहयमाऽऽत्मरमागृहीतौ

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31