Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०७ ) यस्मिन् कल्पलतालतौषधिगणैरङ्गीकृतेऽहनिशं, दुर्गोदुर्गतिदारको गुरुशिखः पूज्योऽचलः श्रद्धया । कैलासश्चलितो दशाननबलानायं चलो विश्रुत स्तस्मादेव यथार्थनाम वहते दुर्गाधिपत्याश्रितः ॥५॥ यत्रास्ते जिनराजराजिरनघा प्रोत्तुङ्गकान्त्यालयः, सन्तप्ताऽर्जुनकान्तकान्तिमनिशं धिक्कारयन्ती वरा । मुख्यस्तत्रचतुर्मुखो जिनवरः प्राच्यादिदिक्षु स्थितः, श्रेयः सन्ततिमातनोति जगता साम्यश्रिया राजितः ॥६॥ संप्राप्तानचलेश्वरः सुखयते धाम स्वकीयं शिवो, नन्दीशेन रिरीमयेन बृहता साक्षात्समाराधितः । रूपं गन्मयं दधगिरिजया संवीक्षितं सादरं, दग्ध्वा पञ्चशरं निवृत्तिमभनद्यस्मिन् गिरावर्बुदे ॥७॥ गोपीचन्द्रनरेशसेवितगुहा तत्राऽस्ति भव्याऽनघा, केचिद्भिक्षुवरा वसन्ति विरता अद्यापि यत्राऽभया: । भाद्रश्रावणनामधेयसरसी खच्छाम्बुनी सेवते, तत्रस्थे जनता गता तदुपरि श्रीदेविका मन्दिरम् ॥८॥ कामं रम्यं गिरीन्द्रं प्रकृतिसुभगतां धारयन्तं विशालां, सर्वत्राऽखण्डधारां जनगणसुखदां निर्झरद्वारिधाराम् । मुक्तामालां वहन्तं समुचितहृदयेनाऽव॒दं योगिवासं, दृष्ट्वा केषां न चेतो विविधसुखरतिं प्राप्नुयात् पुण्यमाजाम् । १ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270