Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२५ ) विना तं पीड्यन्ते दितिजवसुदेवा अपि बुधाः, समुत्कण्ठन्ते ये भिनव महालब्धिवशगाः । न तच्चित्रं तस्मिन्नमृत जलधौ विस्मयपदं, सतामृद्धिः शस्या त्रिभुवनतले शुद्धिजनका ॥ १२ ॥ सुधासिन्धुः पूर्णोऽमितविमलज्ञानमणिभिस्तथाऽप्युन्नत्यै यो निजहृदय संभूतसुमुदा । सदा मानुष्याणामनवरतलासं जनयते, परेषां कृत्येषु भजति हि महान्को विमुखताम् ॥ १३ ॥ सुधासिन्धुः क्षीणो भवति हि देति प्रमितितां, व्रजत्येषोऽस्मिन्नो जगति विदधन् धैर्यमनधम् । विजेतॄणां सिद्ध्य शिवसुखसमाच्छादितधियां, लघु भावं त्यक्त्वा गुणगण इहैवातिरसिकः ॥ १४ ॥ सुधासिन्धुः कामं जनयति कमप्यत्र विशदं, प्रमोदं जन्तूनां निकटमधिकं वासं हि जुषताम् । सतां संभूतानां शमितभुवनाऽनेक विपदां, समासाद्येतामनघपदवीं को भुवि जनः ।। १५ ।। न चादिर्मध्यान्तो न पुनरनघस्यास्य विहितो - दकज्ञानस्य प्रमितविषयोऽन्तः सुकविभिः । तथाऽप्येतद्भेदं समुपगतवानेष सकलोमहान्तोऽप्येतस्मिन्विधिजनिततन्त्रार्थसुमुखाः ॥ १६ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270