Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२४ ) सुधासिन्धुलॊके वहति समसिद्धिर्निजतया, समेषां वस्तूनां निरूपमगुणौघं सुरतिदम् । कलावन्तो येऽन्ये यदनुकरणं नैव दधते, शशाङ्कायाः सौम्याः पम्गुणविधानकपटवः ॥७॥ अहो धैर्य कीहग् निरवधिविशालं मतियुताः, सुधाम्भोधेः सम्यक् परिचयतया दृष्टिविषयम् । तदेतत्कुर्वन्तु क्षपितपरपक्षोद्भवभया गुणाः सर्वस्मिन्वै पदमभिदधत्यात्मवशगाः ॥८॥ सदाऽऽहलादं लोके प्रशमितनिजोमिक्रमगणो वितन्वन्पीयूषोदधिस्तुलभावोपजनकम् । स्वकण्ठाऽभिप्राप्तान्नरवरझषादीन्विदधति, प्रमोदावल्यान्यान्परिहतपरापेक्षहृदयान् अहो लीनामीनाः कृपणमनुजाः शीतविमले, ___ अगाधज्ञानोदे सुखमनुपमं यस्य दधते । तदीयां को दध्याद्गुरुगुणसमुत्पनपदवी, । न शोभां सैहीं श्वा धृतकनकमालो हि लभते ॥१०॥ सुधासिन्धुं शुक्ल प्रथितगुणरत्नालिविततं, निजोन्नत्यै काले सततसुखदं मानसमपि । सदा हंसश्रेणी स्फुटमतिधराः स्नेहबहुलाः, सुधाभं तस्यक्त्वा हतभवभयागन्तुमनसः ॥११॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270