Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२३ ) मनः पात्रातः परिभवपदं याति कृपणः, सुधास्रावं चन्द्रं सुखदमनुकूलं सितरुचिः। अनालोक्यैव स्राग् धृतमृतकचेष्टो मदकला, सतां तामिस्त्रायां निहतगुणसम्पद्भुवि सदा ॥२॥ सुधाम्मोधिं सर्वे नृजनुरनघं कर्तुमचलाः, ___ मतेः प्रादुर्भावादनुभवमनुप्राप्य सुधियः । विचिन्त्यैतच्चित्रं शिव विभवतृष्णौकतरलाः, प्रपद्यन्ते शान्त्यै भवदहनसन्तप्तमनसः ॥३॥ सुधासिन्धुः कुत्रः ? स्थित इति महामोहविधुरा भ्रमन्तो नैवास्मिल्लवण जलधिच्छन्नवसुधे । असारे संसारे विषमविषयातिप्रतिहता न गच्छन्ति स्वास्थ्यं तदधिगमनावाप्तिविषयम् ॥४॥ सुधाम्भोधिं सम्यक् परिणतमनोरत्नसुभृतं, सदा चित्रोत्फुल्लं मुनिगुणमहाकम्बुकलितम् । जनैः कीर्ण सेवाविमलमतिभिः शान्तिजनकं, न कः सिद्धिं यातः स्वमतिसुखदांप्रेक्ष्य विपुलाम् ॥५॥ धरेयं रत्नानां निधिरनुमता मानकलिता, __इदं व्योपाक्रान्तं हरिचरणमात्रेण समलम् । सुमेरुः स्वर्यातस्तदपि परिमाणाङ्कितवपुः, परं राशिराममृतमय एषोऽप्रमितिभाक् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270