Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 262
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२१ ) संगुप्तार्थविशेषकाव्यरचनाचातुर्यमुख्याऽऽस्पदं, भव्यं भारतभास्करं मुनिवरं ध्यायन्ति सूरीश्वरम् ॥ १ । सव्याऽसव्यगुणानुवादवचनं संशोध्य शङ्कामयं, भव्यानामुपकारकारणतया व्यक्तीचकार स्वयम् । कर्माणि क्रमतश्च यः परिहरन धर्मक्रियाकर्मठः, सूरिः सोऽयमचिन्त्यरत्ननिलयो वर्षर्ति सर्वोपरि ॥ २ ॥ काम्यानामभिलाषमुन्नतिभिदं यो वर्जयन् कर्मणां वाक्यानां कटुतां त्यजन् क्षयकरी सर्वात्मना शर्मणाम् । बोध्यानां सुखदायिनी प्रविदधत्संसद्तो वाचनां, मुरीणां धुरि पूज्यपादकमलः संराजते संयतः ॥ ३ ॥ दुर्धर्षः परवादिनां निजमते लब्धप्रतिष्ठः सदा, निर्माता करुणामयं जिनमतं व्याख्यानतो निश्चलम् । उद्धा स्वमताऽङ्कुराऽनलमहादुष्टान्वचोवारिणा, सोऽयं राजति सूरिशेखरगतश्चारित्रचूडामणिः ॥ ४ ॥ विज्ञानं विमलं यदीयमनिशं विद्योतते भारते, __लोकाऽलोकविकाशकं विजयते चारित्ररत्नं वरम् । हेयाऽहेयविचारचारुमननं चोज्जृम्भते मानसं, सोऽयं मूरिवरोऽजिताब्धिरनघः सौम्याकृती राजते ॥ ५॥ दुर्थ्यानाऽद्रिसमूहपक्षपविना येनोन्नतिः साधिता, अध्यात्मैकरसायनेन कविना व्यावर्णितश्चाऽऽगमः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270