Book Title: Laghustotra Ratnakar
Author(s): Hemendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २०८) भूपालानां निवासाः प्रतिशिखरगता यदिरेदर्शनीया दृश्यन्ते दृष्टिचोरा वरतरुलतिकामण्डपम्राजिदेशाः । काले ग्रीष्मे कराले रविकिरणवशाच्छान्तिदानेपटिष्ठा भव्या वैमानवारा इव समधिगता यच्छ्रियः प्रेक्षणाय ॥२॥ पालेयाने सुरूपः प्रतिनिधिरचलोऽयं विभाति क्षमायां, शैत्याधानात्मकामं तुहिनततिवशादुच्चतातिप्रमाणात् । नानारत्नौषधीनां प्रचुरनिधितया दीपदीव्यालयैश्च, भिन्नस्रोतःप्रवाहैवरगगनसरिभ्रान्तिदानकदक्षैः ॥३॥ पीत्वा पीत्वा पयांसि प्रतिपदममलान्युद्धतश्रीणि जीवाः, पश्चाद्याः प्रीतिमन्तः सुविहितमनसः स्वस्त्रमार्गप्रवृत्ताः । वैरायन्ते मिथो नो गिरिकुहरगता योगिनां सत्प्रभावाद् , यस्मिन् गुप्तस्थितीनां रहसि गुणवतामबुंदे भासमाने ॥४॥ यस्मिन्नद्रौ धरित्री सुरभयति भृशं चम्पकौघः प्रसून, __ स्थाने स्थाने चकासदरकनकविभैर्देवपूजोचितैश्च । अन्ये पुष्पप्रधाना विकसिततरवो यत्रतत्रोल्लसन्तः, चित्तोत्साहं जनानां सुरभिरतधियां वर्द्धयन्ति त्रिकालम् ।५। आम्राणामुन्नतानां नवविटपलतामञ्जरीभ्राजितानां, वृन्दान्येकत्रभागे विजितसुरतरुश्रीप्रकाण्डानि यस्मिन् । राजन्ते राजिमन्ति क्षुभितजनमनोमोदमापादयन्ते, किं किं कत्तुं न शक्ताः समुचितविभवा मानवा: स्थावरावा।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270